________________
REETIRERNETIREMIERS प्रतिकृच्छा सामायारी
अधुना प्रतिपृच्छासामाचारी प्रारभ्यते । पुच्छा किर पडिपुच्छा गुस्सुव्वणिवेइयस्स अट्ठस्स । कज्जंतराइजाणणहेउं धीराण किइसमए ॥४०॥ ____ गीतार्थसंविग्नो हि गुरुर्यदा वर्तमानकाल एव करणीयं कार्यं ज्ञापयति यथा "मह्यं जलं दद्याः, गोचरीमाने स तुं निर्गच्छ, मत्प्रतिलेखनमधुनैव कुरुष्व, श्रान्तोऽहं शीघ्रं संस्तारकं कुरु", इत्यादि । तदा सदैव * गुर्वाज्ञापालनबद्धकक्षाः साधवः क्षणमप्यविलम्ब्य गुरूदितं कार्यं समापयन्त्येव । तत्र प्रतिपृच्छाया अवसरो।
नास्ति । है किन्तु यदा गुरुरागामिकाले करणीयं कार्यं निवेदयति यथा → (१) सायंकाले विहारं कृत्वा । 2 त्वयाऽमुकस्थाने ग्लानवैयावृत्यकरणार्थं गन्तव्यम्, (२) अधुनाऽहं विश्राम्यामि, मुहुर्तानन्तरं मदर्थं गोचरी
समानेतव्या, (३) श्वो भवताऽमुकग्रन्थः पठनीयः, (४) चातुर्मासानन्तरं त्वया सङ्घमध्ये उपधानं विधापनीयम्, २ (५) अमुकस्थाने त्वमधुना गत्वा तत्रैव वस, (६) पञ्चदशदिवसानन्तरं त्वया मत्समीप आगन्तव्यम् - इत्यादि । तदा यदा गुरुप्रतिपादितस्य कार्यस्य कालो भवेत्, तदा गुरुं प्रति या पूर्वोदिताऽऽपृच्छासामाचारी क्रियते, सैव प्रतिपृच्छासामाचारी गण्यते । यथा सायंकाले गुरुं निवेदयति यथा "गुरो ! भवद्भिविहारस्याज्ञा
कृताऽऽसीत्, तदहमधुना गच्छामि । किमस्ति किञ्चित्कार्यम् ?" इत्यादि । अथवा मुहूर्तानन्तरं गुरुपायें गत्वा 20 गुरुं पृच्छति "भवद्भिर्गोचरीमानेतुं मां प्रति कथितम् । तत्किमधुना समानयामि गोचरीम् ?"इत्यादि । अथवा द्वितीयदिने गुरुं निवेदयति "भवद्भिरमुकग्रन्थस्याध्ययनं मह्यं निवेदितमासीत् । तत्किमधुना प्रारभेऽहं तं ग्रन्थम् ? इत्यादि । अथवा चातुर्मासानन्तरं गुरुं पृच्छति "किं भवत्कथनानुसारेण कारयाम्युपधानं ?" इति । अथवा चतुर्दशदिनानन्तरं श्रावकद्वारा निवेदयति, यथा "भवत्कथनानुसारेणाहं श्वो भवत्समीप आगच्छामि किम् ?" इत्यादि।
एतत्सर्वं यदा गुरुविधेयकार्यस्य करणं निवेदयति, तदा ज्ञातव्यम् । यदा तु गुरुनिषेध्यकार्यस्य निषेधं । करोति । यथा → अष्टमीचतुर्दशीषु केनापि साधुना नमस्कारसहितप्रत्याख्यानं न करणीयम् । तथा तासु तिथिषु । मिष्टान्नं न समानेतव्यम् । संखडिषु भिक्षा न ग्रहीतव्या । प्रातःकाले प्रकाशात्पूर्वमन्धकारे विहारो न कर्तव्यः। से स्वजनैरानीतं किमप्यशनादिकं न ग्रहीतव्यम् । साध्वीनामुपाश्रये नैव गन्तव्यम् + इत्यादि । 1. तदा यस्मिन्काले गुरुणा निषिद्धानां कार्याणां सेवनं कारणे सति कर्तुमिष्येत । तस्मिन्काले क्रियमाणा से पूर्वोदिताऽऽपृच्छासामाचार्येव प्रतिपृच्छासामाचारी भवति । यथा गाढरोगादिदशायां शिष्यः पृच्छति - "गुरो ! यद्यपि भवद्भिरष्टम्यादिषु नमस्कारसहितप्रत्याख्यानं निषिद्धम् । तथापि गाढरोगेण पराभूतोऽहं न नमस्कारसहितप्रत्याख्यानं विना स्थातुं शक्नोमि । यतो मयौषधं भोक्तव्यमस्ति । तद्यदि भवाननुजानीयात्, तदाऽहं करोमि नमस्कारसहितप्रत्याख्यानम्" इति । अथवा दीर्घविहारं कृत्वा कुत्रचित्स्थाने गताः 8 साधवोऽतीवश्रमवन्तः सञ्जाताः, तत्र च महती संखडिवर्तते । तदा शिष्या गुरुन्पृच्छन्ति - "गुरो !
यद्यप्यष्टम्यादिषु मिष्टान्नं भवता निषिद्धम् । किन्तु सम्प्रति साधूनां मिष्टान्नमावश्यकं । अत्र च प्रभूतं प्राप्यत इति 1. यदि भवाननुज्ञां ददाति, तदा वयमानयामो मिष्टान्नं" इति । एवमल्पदिनेभ्य एव दीर्घविहारं कृत्वा दूरदेशे गन्तुं
333388888888888888885608888888883860866600GGGGEcccmmsmrasa
EEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७०