________________
EEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
M
ITTEESEEEEEEEEEEEEEEEE आzछ। सामाचारी किं वाऽत्रान्येषां गुणानां गवेषणेन ? सामाचार्यपालने वाऽन्येषां प्रत्यवायानां गवेषणेन प्रयोजनम् ? र आपृच्छासामाचारीपालने जिनेश्वराणामाज्ञा परिपालिता भवतीत्येव महत्तमो गुणः । आपृच्छासामाचार्यपालने च। जिनेश्वराणामाज्ञा विराधिता भवतीत्येव महत्तमः प्रत्यवाय इत्यभिप्रायवान्कथयत्याचार्यः। विहिए कज्जे कज्जो अहवा निस्संकियं परमजत्तो । इय बहुवेलापुच्छादिट्ठा सामण्णपुच्छावि ॥३९॥ है अत्र गाथायां यत् "अहवा" इति पदं । तत्तु "पूर्वगाथाप्रतिपादितानां गुणानां गवेषणं तावद्युक्तमेव । किन्त्विदमपि नूतनं तत्त्वं रमणीयम्" इति ज्ञापनार्थम् ।
तच्च नूतनं तत्त्वमिदम् ।
इह शुभकार्याणि द्विविधानि भवन्ति । अवश्यं कर्तव्याणि, स्वोल्लासानुसारेण कर्तव्यानि च । तत्रोभयकालं का प्रतिक्रमणं प्रतिलेखनं महाव्रतपालनं समितिगुप्तिसेवनमित्यादीनि कार्याण्यवश्यं कर्तव्यानि । तथा ग्लानसाधोवैयावृत्यं, सांवत्सरिकक्षमापना प्रायश्चित्तमित्यादीनि कार्याण्यप्यवश्यं कर्तव्यानि भवन्ति । संक्षेपतो। येषां कार्याणामकरणे प्रत्यवायो भवति, तानि सर्वाण्यपि कार्याण्यवश्यंकरणीयरूपाणि भवन्ति ।
किन्तु सर्वेषां साधूनां प्रश्रवणादेः परिष्ठापनम्, स्वस्थानां समानसाधूनां प्रतिलेखनम्, प्रतिदिनमेकाधिकानां जिनगृहाणां वन्दनमित्यादीनि कार्याण्यावश्यकरूपाणि न भवन्ति । यदि भक्तिभावो भवेत्, तर्हि प्रकृतकार्यकरणेऽवश्यं महत्या निर्जराया लाभो भवति । किन्तु यदि तानि कार्याणि न क्रियते, तदा जिनाज्ञाभङ्गादिरूपः कश्चिदपि प्रत्यवायो न भवति ।
यान्यावश्यककार्याणि भवन्ति, तानि नित्यकर्मपदेन व्यवहीयन्ते । आपृच्छासामाचारी तावन्नित्यकर्मरूपैवा यद्यपीच्छाकारसामाचार्यपि मिच्छाकारादिसामाचार्यपि च नित्यकर्मरूपैव । तथापीदानीमापृच्छाया एवावसर इति तस्या एव विचारणा क्रियते । तत्रापृच्छासामाचारी यतो नित्यकर्मरूपा, तस्मात्सर्वा:शङ्काः परित्यज्य तत्र परमयत्नः कार्यः । यदि च सा न सम्यक्पाल्यते । तदा नित्यकर्मविराधना भवेत् । सा च जिनाज्ञाविराधनारूपैव जिनाज्ञाभङ्गश्च महानर्थकारी भवतीति प्रकृतापृच्छासामाचारीपालने गुणो भवतु वा मा वा, तदपालने संभवतः प्रत्यवायाभीतेन साधुनाऽतिशयप्रयत्नपूर्वकं सा सामाचारी पालनीयैवेति हृदयम् ।
नन्वियं जिनाज्ञा न महती, किन्तु लघ्वी । अतस्तस्या अपालने कथं महानर्थो भवेदिति चेत् अहो भवतामज्ञानविलासः, सम्यक्प्रकारेण परिपालिता काऽपि जिनाज्ञा नियमाद् भवोदधितरी भवतीति कोऽयं विभागः ? यदुतामुकाज्ञा लघ्वी, अमुका च महती इति । स्वस्वावसरे सर्वा एव जिनाज्ञा महत्यो भवन्ति ।। तस्मादापृच्छासामाचार्यपालने नियमाद्महानर्थसंभव इति तद्भीरुणाऽवश्यमियं सम्यक्पालनीया भवति।
स्वल्पोऽपि जिनाज्ञाभङ्गो महानर्थकारी भवतीति पदार्थोऽन्येनापि प्रकारेण सिद्ध्यति । तथाहि - नमस्कारसहितादिप्रत्याख्यानेषु नमस्कारमहामन्त्रादिमात्रकायोत्सर्गेषु च जिनैर्बहव आकारा अपवादमार्गरूपाः का प्रतिपादिताः सन्ति । यदि सचित्तजलस्य बिन्दुरप्यनाभोगतो मुखे पतेत्, तदाऽऽकाराभावे प्रत्याख्यानभङ्गो भवेत्।।
स च भङ्गो यद्यनर्थकारी न स्यात्, तदा तु तीर्थकारास्तत्राकारान्न कथयेयुः । किन्तु यतस्तीर्थकरैस्तत्राप्याकाराः प्रतिपादिताः, तेनैतज्ज्ञायते यदुत → "यद्येते श्रावकाः साधवो वा चतुर्विधाहारप्रत्याख्यानं कृत्वा, यद्यनाभोगेनापि।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७८ MORRESSSSSSSCRESSSSSSSSSSSSURESSERTRESSETURESSSSSSSSSSSSSSSSSSSSSSSESSAGE