________________
CEEEEEELECCEECEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SAREERITTEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE E माछा सामायारी क्रमशः प्राप्तिर्भवति । ततः पुनरपि स तत्र दशविधचक्रवालसामाचारीसहितं शोभनं चारित्रं पालयति । पुनरपिल पूर्वपुण्यापेक्षयाऽधिकशक्तिमतः शुभकर्मणो बन्धो भवति । तदुदयेन पुनरप्यधिकदेवलोकसुखमधिकोत्कृष्टकुले च जन्म प्राप्यत इत्येवंक्रमेण पुण्यबन्धस्य परंपरा परमपदस्य च प्राप्तिर्भवत्येव ॥३६-३७॥ _ शिष्यः प्रश्नयति - ननु ये नूतनाः साधवः, ते विधिं न जानन्तीति तान् गुरुरापृच्छाकाले विधिं कथयति। किन्तु ये रत्नाधिका दीर्घचारित्रपर्याया भवन्ति, ते तु विधि जानन्त्येव । गुरुणाऽपि तेभ्योऽनेकशो विधिः पूर्वं । दत्तः एव भवतीति ते यदि पुनरापृच्छां कुर्युः, तदा सा निष्फलैव भवेत् । यतस्तत्र गुरुर्विधिप्रतिपादनं नैव । १ करोति। झटित्यनुज्ञामेव ददातीति तेषां तु सा निष्फलैव ।
तथा यानि नेत्राणां निमेषोन्मेषादिकार्याणि शिष्याणां सर्वेषामपि सुविदितानि, येषामनुज्ञा "बहुवेल ३ संदिसाहु" "इत्यादेशेन गृह्यते । तत्र तेषां कार्याणां विधिरेव न भवतीति तत्र गुरुर्विधि नैव कथयति । किं कोऽपि 8
गुरुरित्थं वदेद्यथा → नेत्रेऽमुकप्रकारेण मीलनीये, अमुकप्रकारेण वोन्मीलनीये । शरीरे रुधिरभ्रमणममुकरीत्यैव र कर्तव्यममुकरीत्या न कर्तव्यम् - इति ? नैव वदेत् । तस्मादेतयोर्द्वयोः स्थानयोरापृच्छासामाचारी व्यथैव ।
भवतीति । व आचार्यः प्रत्युत्तरयति । एवंभूअणएणं मंगलमापृच्छणा हवे एवं । बहुवेलाइकमेणं सव्वत्थवि सा तओ भणिया ॥३८॥
किं भवान्गौतमस्वामिनं जानासि ? पञ्चाशत्सहस्रकेवलिनां गुरुः प्रथमगणधारी गौतमस्वामी सर्वं विधि जानानोऽपि सर्वाणि कार्याणि भगवन्तं श्रीमन्महावीरमापृच्छ्यैव चकार । तत्र महावीरस्वामी न सर्वदा विधि कथितवान्, किन्तु प्रायः सर्वत्रानुज्ञामात्रं दत्तवान् । किन्तु जगद्गुरुं प्रति प्रवर्धमानबहुमानस्य गौतमस्वामिनोई मनसि भगवन्तं प्रत्यापृच्छासामाचारीपालने तीव्रहर्षोल्लासः समभवत् । यदा च श्रीमन्महावीरस्वामी गौतमस्वामिनेऽनुज्ञामददत्, तदा गौतमस्वामिनो मनसि हर्षोल्लासः समभवत् यथा → ममेदं कार्यं ।
जगद्गुरुणाऽनुज्ञातम्, तस्मादवश्यमिदं कार्यं मम हितकार्येव । तस्मादेव चात्र कार्ये मया भृशं प्रयतितव्यम् । र इति । इत्थञ्च गौतमस्वामिनः प्रत्येकापृच्छाकाले शुभभावः समुदपद्यत, तेन च पूर्वोक्ताः सर्वेऽपि गुणास्तस्य ।
अभवन् । ____ एवमेवातीवविनयवन्तो रत्नाधिका अपि शिष्या:सदैव शुभकार्यस्यापृच्छाकालेऽनुज्ञाप्राप्तिकाले च
शुभभाववन्तो भवन्त्येव । गुरुस्तावद्विधि कथयतु, न वा किञ्चिदपि कथयतु । तेषां विनीतशिष्याणां शुभभाव। का उत्पद्यत एव । ततश्च पूर्वोक्ता गुणास्तेषां भवन्तीति बहुवेलकार्यादिषु सर्वत्रैवापृच्छा सफलैव भवतीति सिद्धम्।। ___ अत एवापृच्छासामाचारीपालनमेवंभूतनयेन मङ्गलमभिधीयते । यद्वस्तु मङ्गं कल्याणं लाति-प्रापयति
तन्मङ्गलमिति हि मङ्गलशब्दस्यार्थः । आपृच्छासामाचारीपालनञ्च नियमाद्विनीतशिष्याणां मनसि 1 शुभभावोत्पादनद्वारा सद्गतिपरंपराजननद्वारा कल्याणं प्रापयत्येवेति तत्पालनमपि मङ्गलं वक्तुं शक्यते। र तथा मां आत्मानं पापाद् गालयतीति मङ्गलमित्यपि मङ्गलशब्दार्थोऽस्ति । आपृच्छासामाचारी त्वविधिनिषेधादिद्वाराऽवश्यमात्मानं पापाद्गालयतीति तेनापि प्रकारेण तत्पालनं मङ्गलमभिधीयते ॥३८॥
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७० SMOGSSETTERRIERRORISTORRESTERTAINMENTERTICESSTORIESIRESE0000000000
EEEEEEEE