________________
BERE
KEE
P ERImmmm आछ। सामायारी निवेदनमापृच्छासामाचारी न भवति । र सर्वमपि हि कार्यमापृच्छापूर्वकं क्रियमाणमेव साधूनां श्रेयस्करं भवति । नान्यथा ॥३५॥
एतदेव विस्तरतः प्रतिपादयति । जेण गुरुविहिणाया दाएइ विहिं खु तस्स आणाए । तत्तो विहिपडिवत्ती सुहभावा तत्थ विग्धखओ ॥३६ ततो इट्ठसमत्ती तयणुबंधो अपुण्णपावक्खया । सुगइगुरुसंगलाभा परमपयस्सावि हवे लद्धी ॥३७॥
शिष्यस्य मनस्युत्तराध्ययनसूत्रं कंठस्थं कर्तुमभिलाषो भवति । स च गुरुबहुमानवान् विनयपूर्वकं गुरुमापृच्छति यथा “अहमुत्तराध्ययनसूत्रं कंठस्थं करोमि, भवाननुजानातु" इति । गुरुस्तु तदा विचारयति → अस्य शिष्यस्य मनसि शोभन: संकल्पोऽभवत्, अहमधुनैवानुजानामि । किन्त्वयं शिष्यः केवलमुत्तराध्ययनसूत्रपाठस्यैवाभिलाषं बिभर्ति । तस्य विधिं तु न जानातीति विधिज्ञानविरहितः स येन केन प्रकारेण यदा तदा यथा तथोत्तराध्ययनसूत्रं पठिष्यति । तथा च सति तस्य सूत्रविराधनादयो बहवो दोषा भवेयुः । अहं च तस्य: गुरुः, यदि स यत्किञ्चिदप्युत्सूत्रं कुर्यात्, तदा तन्निमितकः कर्मबन्धो ममापि स्यात् । किञ्च शिष्यस्य हितकरणं, गुरोराचारः, तदपालने तु शिष्यस्याहितं मम च तदपालनजन्यो दोषो भवेत् । तस्मात्सर्वोऽपि विधिर्मयाऽस्मै शिष्याय दातव्य - इति ।
इत्थञ्च चिन्तयित्वा स गुरुः शिष्यं कथयति-शिष्य ! शोभनो भवतोऽध्यवसायः, अनुजानामि। त्वामहमुत्तराध्ययनसूत्रम् । किन्तु “विधिपूर्वकमेव तदध्ययनं श्रेय" इति विधि जानीहि । अमुकस्थविरपार्वात् भवता सूत्राणि ग्राह्याणि । तथा 'अयमागमग्रन्थ" इत्यशुद्धवसतौ न तस्याध्ययनं युक्तम् । तस्माद् वसतिः
सम्यक्प्रत्युपेक्षणीया। तथाऽस्वाध्यायकाले तदध्ययनं न कर्तव्यम् । मोहविषविनाशकञ्च मन्त्रकल्पं तत्सूत्रमिति * शुद्धोच्चारपूर्वकमेव पठनीयम् । तथा तस्यामुका टीकाऽतीवशो भने ति साऽपि पठनीया ।। महावीरस्वामिनश्चरमदेशनाया:सारोऽस्मिन्ग्रन्थे विद्यत इति बहुमानपूर्वकमध्ययनं कर्तव्यम्-त्यादि ।
एवञ्च यदा विधिज्ञाता गुरुर्विधि प्रतिपादयति, तदाऽज्ञस्य शिष्यस्य सम्यग्विधिज्ञानं समुत्पद्यते । ततश्च विशिष्टं विधिं ज्ञात्वा शिष्यस्य मनस्यपूर्वोल्लासः प्रादुर्भवति । गुरोरुपरि जिनवचनस्योपरि च 2 महान्बहुमानभावस्तस्य संजायते यथा - "मम गुरुमद्धिताय विधि ज्ञापयित्वा ममोपरि महोपकारं कृतवान् । जिनवचनमपि संसारे सारभूतं, यत्रेदृशो विधिः प्रतिपाद्यते । सर्वथा धन्यातिधन्योऽस्म्यहमिदृग्गुरुं जिनवचनञ्च ।। संप्राप्य" इति । ___ इत्थञ्च समुत्पन्नः शुभो भावस्तस्यैव कार्यस्य प्रतिबन्धकीभूतानि कर्माणि विध्वंसयति । अन्यानि च
पुण्यकर्माणि समुत्पादयति । इत्थञ्च प्रतिबन्धकानां कर्मणां ज्ञानावरणीयादिरूपाणां विनाशात्स शिष्य 1 उत्तराध्ययनसूत्रं शीघ्रमेव कंठस्थं करोति । विधिञ्च सर्वमपि पालयतीति मोहनीयकर्मणस्तीव्रक्षयोपशमः प्रादुर्भवति। इत्थञ्च तस्य मोहनीयकर्मोदयजन्या अहङ्कारक्रोधादयश्च दोषा विनश्यन्ति । निर्दोषश्च स जिनशासने ।
रत्नमिव शोभमानो बहून्जनान्जिनधर्मे योजयतीति परम्परया परमपदसाधको भवति । इत्थञ्च लघोरपि र कार्यस्यापृच्छासामाचारी सद्गतिसन्तानद्वारा निर्वाणसुखप्रापिका भवति । Sear2000000000000RRRRRRRRRRRRRRRRRRRRoman
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७५ STOROSSESSOCESSINGERROTECTRESORTERSNESSSSSSSSSSSSSSSSSSSSSSSSSSSSCREEB
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE