________________
888888888806836658
SOC
I ETIERRITI आपृच्छा सामायारी महामहोपाध्यायश्री यशोविजयविरचित सामाचारीप्रकरण ग्रन्थानुसारिणी दशविध चक्रवालसामाचारी
एँ नमः
अधुना आपृच्छानाम्नी षष्ठी सामाचारी प्रारभ्यते । णियहियकज्जपइण्णणिवेअणं पइ गुरुविणयपुव्वं । आपुच्छण ति नेया सेयं तप्पुव्वयं कम्मं ॥३५॥ कर स्वाध्यायवैयावृत्यध्यानादियोगेष्वनवरतं वर्तमानो मुनिः प्रतिदिनं प्रवर्धमानशुभपरिणामो भवति । तत्र
कदाचित्तस्याष्टमादितपःकरणस्याभिलाषो भवेत् । कदाचिदभिनवग्रन्थाभ्यासस्याभिलाषो भवेत् । कदाचित्साधूनां
भक्तिकरणस्याभिलाषो भवेत् । कदाचित्सर्वचैत्यानां वन्दनकरणस्याभिलाषो भवेत् । कदाचिन्मलिनानां र स्ववस्त्राणां रत्नाधिकवस्त्राणां वा प्रक्षालनस्याभिलाषो भवेत् । एवं यदा यदा साधोर्मनसि स्वहितकारिणः
कार्यस्याभिलाषो भवति । तदा तदा स गुरुमनापृच्छ्य शुभमपि तत्कार्यं कर्तुं नार्हति । किन्तु गुरुं प्रति हृदये १ वर्धमानबहुमानभावः स गुरुं प्रति स्वहितकार्यं निवेदयति, यथा "गुरो ! अहं वस्त्रप्रक्षालनमद्य कर्तुमिच्छामि, अभिनवग्रन्थाभ्यासं वा कर्तुमिच्छामि । यूयमनुजानीत" इति । इत्थञ्च गुरुं प्रति प्रवर्धमानबहुमानभावस्य साधोः स्वहितकारिणः कार्यस्य यन्निवेदनं साऽऽपृच्छासामाचारीति फलितम् ।
अत्र हि वैयावृत्यादिरूपं शुभमपि कार्यं गुरुं प्रति बहुमानवानपि साधुर्मुरुमनापृच्छ्य यदि कुर्यात्, तदा का साऽऽपृच्छासामाचारी न भवति ।
तथा स्वहितकारि वैयावृत्यादिरूपं कार्यं गुरुं पृष्ट्वा स साधुः कुर्यात् किन्तु तस्य मनसि गुरुं प्रति बहुमानभावो यदि न विद्यते । विनयबहुमानाभ्यां विना स गुरुमापृच्छेत्, तदा साऽऽपृच्छासामाचारी न भवति। ___तथा कश्चित्साधुर्गुरुं प्रति बहुमानवान्भवेत् । किन्तु तस्य मनसि निष्कारणमेव विकृतिभोजनस्याभिलाषो।
भवेत्, स्वाध्यायं वा त्यक्त्वा निद्राकरणस्याभिलाषो भवेत्, अन्यो वा कश्चित्तथाविधकार्यस्याभिलाषो भवेत्, 1 यत्कार्यं तस्य साधोरहितकारि स्यात् । स च साधुस्तत्कार्यं गुरुं प्रति निवेदयति । किन्तु साऽऽपृच्छा सामाचारी न गण्यते । यतो गुरुं प्रति स्वहितकारिण एव कार्यस्य निवेदनमापृच्छा भवति ।
तथाऽन्यः कश्चित्साधुस्तपःस्वाध्यायादिकं वा कर्तुमिच्छति । प्रकृतः साधुस्तु गुरुसमीपे गत्वा निवेदयति यथा "अमुको मुनिरभिनवग्रन्थाध्ययनं तपो वा कर्तुमिच्छति"इति । तच्च निवेदनमापृच्छासामाचारी न कथ्यते। १ यतः परेण मुनिना कर्तुमीहितं कार्यं प्रकृतसाधोहितकारि नास्ति । किन्तु परस्यैव हितकारि तत्कार्यं भवति । यत्कार्यं निवेदकस्य स्वस्य हितं करोति, तत्कार्यनिवेदनमेव निवेदकस्यापृच्छासामाचारी गण्यते । परस्य हितकारि स्वस्याहितकारि वा कार्यं निवेदयतः साधोस्तन्निवेदनमापृच्छासामाचारी न भवतीति तात्पर्यम् । 2 तथा गुरुं प्रति बहुमानवानपि साधुः स्वहितकार्यपि कार्यं यदि गुरुभिन्नमन्यसाधुं प्रति निवेदयति, तदा तदपि
CEEEEEEEEEE
EEEEECEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १४ PresssmasomaasRGINISTERB000RICHERECTORS