________________
eeeee
ઉપસંપદ સામાચારી
જાણી શકે ? એટલે એમના મતે વંદનાદિ વ્યવસ્થા જ ન ઘટે.)
यशो. - गुणविशेषस्य 'दासेण मे० ' इत्यादिन्यायाद् गौणत्वात् ।
चन्द्र. - ननु गुणविशेषोऽत्र कथं न प्रधानम् ? इत्यत आह गुणविशेषस्येत्यादि । सेवकेन क्रीतो गर्दभः सेवकस्य न भवति, किन्तु स यस्य स्वामिनः सेवकः, तत्स्वामिनः एव स गर्दभो भवति । एवं पर्यायविशेषेण गुणविशेषो भवति । गुणविशेषेण च वन्दनीयता भवति । एवं च वन्दनीयत्वं गुणविशेषेण क्रीतं, किन्तु गुणविशेषस्तु पर्यायविशेषस्याधीन इति कृत्वा तद् वन्दनीयत्वं पर्यायविशेषेणैव क्रीतं भवति । "पर्यायविशेषः गुणविशेषप्रयोजक" इति एतत्तु साधोः पर्यायवृद्ध्या लेश्याविशुद्धिवृद्धिप्रतिपादकेन भगवतीसूत्रेण प्रसिद्धमेव । तत्र हि “यथा यथा साधोः पर्यायवृद्धिर्भवति, तथा तथा साधोः चारित्रपरिणामवृद्धिर्भवति" इति प्रख्यापितम् ।
આમ ગુણ જ વંદનીય હોવા છતાં ગુણનું જ્ઞાન તો વિશિષ્ટપર્યાય દ્વારા જ થતું હોવાથી પર્યાય જ પ્રધાન બને. જેમ કોઈ સ્વામીના નોકરે ગધેડો ખરીદ્યો. તો અહીં નોકર પોતે સ્વામીનો હોવાથી નોકરનો ગધેડો પણ સ્વામીનો જ ગણાય. એમ અહીં વિશિષ્ટપર્યાય વડે ગુણવત્તાનો બોધ થાય. અને એના વડે વંદન થાય. એટલે ગુણવત્તાનું જ્ઞાન વિશિષ્ટપર્યાયને આધીન હોવાથી ગુણવત્તા જ્ઞાનને આધીન વંદન પણ વિશિષ્ટપર્યાયને આધીન ४ गाशा गुश भाव गौए। जनी भय.
-
यशो.
उक्तं च - ( पंचवस्तु - १०१५ )
“णिच्छयओ दुन्नेयं को भावे कंमि वट्टए समणो । ववहारओ उ कीरइ जो पुव्वट्ठिओ चरितं ॥ इति ।
चन्द्र. अत्रार्थे ग्रन्थकारः व्यवहारनयपुष्टिकरीं पूर्वपुरुषसम्मतिमाह णिच्छयओ इति । निश्चयतः= परमार्थतः एतत् दुर्ज्ञेयमस्ति यदुत "कः श्रमणः कस्मिन् क्षायिकादिभावे वर्तते ? इति । ततश्च निश्चयनयेन वन्दनव्यवस्था कथं भवेत् ? यतः यो गुणाधिकः स एव गुणहीनस्य वन्दनीय इति निश्चयनयाभिप्रायः । गुणाधिकत्वं तु दुर्ज्ञेयमेवेति निश्चयनयानुसारेण वन्दनव्यवस्था न संभवति । व्यवहारतस्तु " य: चारित्रे पूर्वस्थितः, पर्यायज्येष्ठः इति यावत्, स वन्द्यत" इति व्यवस्था संभवति ।
પંચવસ્તુકમાં કહ્યું છે કે “નિશ્ચયથી તો આ વસ્તુ માંડ માંડ જાણી શકાય કે “કયો સાધુ કયા ભાવમાં વર્તે છે ?” વ્યવહારથી તો જે સાધુ ચારિત્રમાં પ્રથમ સ્થિત હોય. (જેણે પહેલી દીક્ષા લીધી હોય) તે વંદનીય બને.
यशो. नन्वेवं द्वयोरप्यनयोः स्वाग्रहमात्रेणाऽव्यवस्थितत्वात्किं प्रमाणं ? किं वाऽप्रमाणम् ? इति विविच्यताम् अत आह- उभयनयमतं च-उक्तनयद्वयसम्मतं च पुनः ग्रहीतव्यं =आदरणीयं तुल्यवत्, उभयापेक्षायामेव प्रमाणपक्षव्यवस्थितेः ।
चन्द्र. - एवं ग्रन्थकारेण निश्चयव्यवहारयोः प्रतिपादितयोः सत्योः किंकर्तव्यतामूढः कश्चिदाह नन्वेवं મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૩૧