________________
SEEEEEEEEEEEEE
138330133333333330RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRIER
सामायारी न चन्द्र. - उत्सर्गस्तु अपवादयुक्त एव भवति । ततश्च "कदा उत्सर्ग परित्यज्यापवादाश्रयणं कर्तव्यम् ?" 1 इत्यत्र वक्तव्यम् । तदेव टीकाकारः दृष्टान्तद्वारेण प्रदर्शयति। यदि तु इत्यादि । से यदा मुनेः स्वकार्यसकाशादधिकनिर्जराकारि अन्यत् कार्यं समापतति, तच्च आपतितं कार्यं नान्यः कोऽपि
साधुः कर्तुं शक्नोति । तदा स मुनिः उत्सर्गं परित्यज्य क्षुल्लकसाधवे इच्छाकारपूर्वकं स्वकार्यं समर्पयति, की अपवादाश्रयणं करोतीति यावत् । यदि आपतितं अन्यत् कार्यं स्वकार्यसकाशात् अधिकनिर्जराकारि न स्यात्, तहि न स स्वकार्यं अन्यस्मै समर्पयति । तथा हि - कश्चित् व्याख्याता मुनिः मरणशय्यायां उपविष्टस्य स्वाचार्यस्य वैयावृत्यं करोति, अद्य कल्ये वा आचार्यस्य मरणं भवेदिति परिस्थितिः । तत्र च चतुर्दशी तिथिः । समागता । श्रावकैः व्याख्यातृमुनेरभ्यर्थना कृता यथा → अद्य भवान् व्याख्यानं अस्मभ्यं ददातु – इति ।। तत्र चान्यः कोऽपि व्याख्याता नास्ति । एवञ्च एतत् समापतितं व्याख्यानात्मकं कार्यं पुरुषान्तरेण साध्यं नास्ति। किन्तु प्रकृतमुनिनैव साध्यमस्ति । किन्तु अस्मिन्काले गुरुवैयावृत्यमधिकनिर्जराकारि कार्यमस्ति । समापतितं । कार्यं तु तादृशवैयावृत्यसकाशादधिकनिर्जराकारि नास्ति । ततश्च स मुनिः न गुरुवैयावृत्यरूपं स्वकार्य ।
अन्यसाधुभ्यः समर्पयतीति । र एवं कश्चिद् व्याख्याता मुनिः वस्त्रप्रक्षालनं करोति । तदैव बहिर्गामात् बहवः श्रावकाः समागताः । तैः 21 व्याख्यानयाचना कृता । अत्र यद्यपि वस्त्रप्रक्षालनसकाशात् व्याख्यानात्मकं कार्यं अधिकनिर्जराकारि अस्ति। तथापि तत्र अन्येऽपि व्याख्यातारः सन्ति । ततश्चेदं समापतितं कार्यं पुरुषान्तरैः असाध्यं नास्तीति तदा स मुनिः। अन्यं व्याख्यातारमेव व्याख्यानं दापयति । न तु स्वकार्यं वस्त्रप्रक्षालनं अन्यस्मै दत्त्वा स्वयं व्याख्यानं करोति।।
___ अत्रेदं बोध्यम् । व्याख्यानं स्वरूपतः एव वस्त्रप्रक्षालनसकाशादधिकनिर्जराकारि, न तु र फलतोऽप्यवश्यमधिकनिर्जराकार्येव भवतीति नियमः । व्याख्यानात्मकस्य कार्यस्य करणाय समर्थे साध्वन्तरे विद्यमाने सति यदि प्रकृतः साधुः वस्त्रप्रक्षालनं स्वकार्य अन्यस्मै समर्प्य व्याख्यानं करोति. तदा न स: अधिकनिर्जरां प्राप्नोति । किन्तु अनुचितप्रवृतिमान् भवतीत्यादि बहु वक्तव्यं । तत्तु स्वयमेवोह्यम् ।
एतदेव सर्वं यदि तु वस्त्रपरिकर्मादे इत्यादिना निरूपितं टीकाकारेण ।
विशिष्टनिर्जरार्थितयेत्यादि । स्वकार्ये वस्त्रप्रक्षालनादिके या निर्जरा भवति, तदपेक्षया पुरुषान्तरासाध्ये स्वसाध्ये व्याख्यानवैयावृत्यादिके कार्ये अधिकनिर्जरा भवतीति जानन् स मुनिः "कथं नु नाम मम विशिष्टा निर्जरा भवेद् ?"इतीच्छावान् भवति । ततश्च विशिष्टनिर्जरार्थी स विशिष्टनिर्जरार्थितयैव स्वकार्यं अन्यस्मै समर्पयति। यदि तु तस्य साधोः विशिष्टनिजरेच्छा न भवेत् । प्रत्युत स यदि एवं चिन्तयेत् यदुत "शुभं भवतु। एतेषां श्रावकाणां यदेते अधुनैवागताः । एतेषां व्याख्यानप्रदाने ममानन्दो भविष्यति । यशश्च समुत्पत्स्यते, व्याख्यानकरणकपटेन च मत्कार्यं अन्यस्मै समर्पयितुं शक्नोमि, नान्यथा" इत्यादि । ततश्च यदि मलिनभावेन र स्वकार्यं अन्यस्मै समर्पयति । तदा पुष्टालम्बनसत्त्वेऽपि अध्यवसायप्रभावात् स मुनिः वीर्यनिगूहनमेव र प्राप्नोतीति तु सूक्ष्मधिया विभावनीयम् । છે પરંતુ સાધુ પોતાનું વસ્ત્રસીવન વગેરે રૂપ કોઈ નાનું કામ કરતા હોય અને એ જ વખતે (૧) આ કાર્ય % 8 કરતા વિશિષ્ટ (૨) બીજા કોઈ પણ સાધુ ન કરી શકે એવું (૩) પોતાનાથી સાધી શકાય એવું ગ્લાનિસેવા,
६EE332
FEEEEEEEEEEEEEEEEE
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત • પર CensualEEEEEEEEEEE808805888888888888888SESEGISESSIGERSECREE
B