________________
Beeee ઈચ્છાકાર સામાચારી
यशो. एवं च प्रशस्ताध्यवसायवांस्तन्मात्रनिमित्तकफलभावेऽपि वीर्यमप्रयुञ्जानो वीर्याचारपरिपालनानिमित्तकनिर्जरालाभेन वञ्च्यत इति संपूर्णफलार्थिना साधुना भावतो यत्नो विधेयः ॥९॥
चन्द्र.
एतदेवाह एवं च प्रशस्ताध्यवसायवान्-गुरुभक्तिकरणादिशुभभाववान् तन्मात्रनिमित्तकफलभावेऽपि = शुभभावः एव ( न तु वीर्याचार :) निमितं यस्य तादृशं यन्निर्जरात्मकं फलं, तत्सद्भावेऽपि वीर्यं= इच्छाकारप्रयोगकरणरूपं अप्रयुञ्जानः = अकुर्वाणः । शेषं सुगमम् ।
-
ननु इच्छाकारादिकं तु बाह्या प्रवृत्तिः । सा च कर्मक्षयात्मके आन्तरकार्ये अप्रयोजिकैव । शुभभावात्मकेनान्तरकारणेनैव कर्मक्षयात्मकमान्तरकार्यं भवति । तत्र बाह्या प्रवृत्तिस्तु अकिञ्चित्करी । अत एव बाह्यप्रवृत्त्यभावेऽपि भरतादीनां सकलकर्मक्षयात् केवलज्ञानप्राप्तिः भावमात्रादेवाभवत् । तस्मात् इच्छाकाराकरणेऽपि शुभभावमात्रात् संपूर्णं निर्जराफलं कथं न स्यादिति चेत् अत्रोच्यते । बाह्या उचितप्रवृत्तिः कर्मक्षये कारणं यद्यपि न भवति । तथापि शुभभावप्रकर्षे सति बाह्या उचितप्रवृत्तिः प्रायो भवत्येवेति तादृशप्रवृत्यभावे भावहीनता निश्चीयते । भावहीनतायाञ्च कर्मक्षयात्मकस्य फलस्य हानिः युक्तैव । तथा बाह्या उचितप्रवृत्तिः शुभभाववृद्धिकरणद्वारा कर्मक्षयात्मकं फलमपि वर्धयति । ततश्च तादृशप्रवृत्यभावे शुभभाववृद्ध्यभवनात् कर्मक्षयात्मकफलस्य हानिरपि युक्तैव । इत्थञ्च शुभभावः एव निर्जराकारणमिति परमार्थेऽपि इच्छाकारादिप्रयोगाभावे निर्जरायाः हानि: युक्तियुक्तैवेति स्थितम् । अत्र दृष्टान्तः प्रतिपाद्यते, येन तत्वं स्पष्टं भवेत्। तथाहि - स्वाध्यायमग्नः कश्चित्साधुः दूरतः वमनं कुर्वन्तं ग्लानसाधुं दृष्ट्वाऽतीव दुःखी सञ्जातः । कथं नु अस्य ग्लानिः क्षयं प्राप्नुयादित्यादि चिन्तयितुं लग्नः एवञ्च तस्य शुभो भावः परपीडापरिहाररूपः सञ्जातः, किन्तु स्वाध्यायस्यात्यासक्त्या स स्वयं वैयावृत्यं कर्तुं नोत्थितः । केवलं शुभपरिणामं भावयति यदुत→ कोऽपि कथमपि तस्य ग्लानस्य बाधामपनयतु ← इति । अत्र हि स स्वयं शक्तौ सत्यामपि वैयावृत्यकरणाय नोत्थित:, तेनैवैतद् ज्ञायते यत् तस्य शुभो भावो मन्दः आसीत् । यदि शुभो - भावस्तीव्रः स्यात्, तर्हि अवश्यं स्वाध्यायं त्यक्त्वा स उत्तिष्ठेत् । ततश्चात्र व्यवहारतः इदं वक्तुं शक्येत यदुत स मुनिः शुभ परिणामजन्यां निर्जरां प्राप्नोति, किन्तु वीर्याचारस्यापालनात् वीर्याचारपालनेन विशुद्धिमधिगच्छतः चारित्रस्य उचितां निर्जरां न प्राप्नोति । निश्चयस्तु स्पष्ट एव यत् वीर्याचारपालनवान् मुनिः यादृशशुभपरिणामवान् भवति। तस्माद् मन्दपरिणामस्यैव स्वामी अयं मुनिः तत्साधुसकाशादल्पामेव निर्जरां प्राप्नोतीति । तथा एतादृक्स्थाने वैयावृत्यायोत्तिष्ठतः साधोः प्राचीनः शुभपरिणाम: अधिकः शुभो भवति । ततश्च तस्य चारित्रं वीर्याचारविशोधितं कथ्यते, तत्र च वैयावृत्यायानुत्तिष्ठतः साधोः प्राचीनः शुभपरिणामः अधिकः शुभो न भवति, प्रत्युत वीर्याचा पालनप्रयुक्ताशुद्ध्या मलिनो भवतीत्यादि बहु वक्तव्यं । तत्तु विस्तरभयात् नोच्यते ॥९॥
શિષ્ય : ઉચ્ચગોત્ર બંધ, નીચગોત્રાદિ નાશ આ બધા લાભો તો સાધુઓને શુભ અધ્યવસાયથી જ પ્રાપ્ત થાય છે. તમે પણ એ જ વાત કરી છે. એમાં ઈચ્છાકારાદિ શબ્દોનો ઉચ્ચાર તો નકામો જ છે. તો પછી શા માટે ઈચ્છાકારાદિ કરવા ?
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૪૮