________________
ઈચ્છાકાર સામાચારી
कारणं भूत्वा अस्मिन् भवे क्षायिकं सम्यक्त्वं लभते इति अस्य भावार्थः । अधिकन्तु तत्रैवाष्टके दृष्टव्यम् । विस्तरभिया विरम्यते । प्रशस्ताध्यवसायात्=प्रवचनश्लाघाऽपि भवतीत्यत्र अन्वयः कर्तव्यः । इच्छाकारसामाचारीं पश्यतां मनसि प्रशस्ताध्यवसायः समुत्पद्यते । ततश्च ते प्रवचनश्लाघां कुर्वन्तीति भावार्थ:
॥८॥
ઉપરાંત શાસનપ્રભાવના પણ થાય. આ ઈચ્છાકારાદિનો વ્યવહાર જોનારા બધા બોલશે કે “ખરેખર ! આ જૈનો નિપુણ અર્થને જોનારા છે. તેઓ બીજાઓને થનારા અલ્પ પણ ખેદને દૂર કરવા માટે પ્રયત્ન કરે છે.” આ ત્રણેય લાભો પ્રશસ્ત અધ્યવસાયથી પ્રાપ્ત થાય છે. એમાં પહેલા બે લાભો ઈચ્છાકાર કરનારાઓના પ્રશસ્ત અધ્યવસાયથી ઉત્પન્ન થાય છે. જ્યારે ત્રીજો પ્રવચનપ્રશંસારૂપી લાભ તો આ બધો આચાર જોનારાઓના મનમાં ઉત્પન્ન થયેલા શુભ અધ્યવસાયથી પ્રગટ થાય છે ।।૮।।
यशो. - अथैवं भावमात्रादेव फलसिद्धौ किमिच्छाकारविधानेन ? इत्यत आह
चन्द्र. - ननु परपीडापरिहाराध्यवसायेनैव उच्चैर्गोत्रादिशुभकर्मबन्धः नीचैर्गोत्राद्यशुभकर्मविनाशश्च भवता प्रतिपादितः, किन्तु तत्र इच्छाकारकरणं न कारणतया प्रदर्शितं । ततश्च भावमात्रादेव = परपीडापरिहाराध्यवसायमात्रादेव फलसिद्धौ = शुभकर्मबन्धाशुभकर्मक्षयफलसिद्धौ किमिच्छाकारविधानेन= किमिच्छाकारकरणेन प्रयोजनम्' इति ? नवमगाथायां समादधाति ।
यशो. - ण य केवलभावेणं हियकज्जे वीरिअं णिगूहंतो । विरियायारविसोहियचरणोचियणिज्जरं पावे ॥९॥
चन्द्र. - न च हितकार्ये वीर्यं निगूहयन् केवलभावेन वीर्याचारविशोधितचारित्रोचितनिर्जरां प्राप्नुयात् ← इति नवम्याः गाथायाः अर्थः ।
यशो - ण यत्ति । न च 'केवलभावेन' परपीडापरिहाराध्यवसायमात्रेण हितकार्ये= परपीडापरिहारूपे वीर्यं = तद्धेत्विच्छाकारप्रयोगं निगूहयन् = आच्छादयन् वीर्याचारविशोधितचरणोचितां निर्जरां प्राप्नुयात् ।
चन्द्र. - तद्धेत्विच्छाकारप्रयोगं = परपीडापरिहारस्य हेतुः यः इच्छाकारप्रयोगः तं आच्छादयन्=अकुर्वन् वीर्याचारविशोधितचरणोचितां=इच्छाकारप्रयोगात्मकेन वीर्याचारेण विशोधितं यत् चारित्रं, तदुचितां । मुनिः परेषां पीडा मा भवतु' इति परपीडापरिहाराध्यवसायं धारयति । किन्तु परपीडापरिहारहेतुभूते इच्छाकारे प्रयत्नं न करोति स भावजन्यां निर्जरां प्राप्नोति, किन्तु वीर्याचारपरिपालनजन्यां निर्जरां नैव प्राप्नोति । तस्मात् यः संपूर्णं निर्जराफलमपेक्षते, तेनावश्यं इच्छाकारे यत्नो विधेयः ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૪૭