________________
AIINE E RINEETIRETRIETIERRITATER
मावसहि सामायारी वश्यकक्रियाव्यापारेऽप्युत्तरकालं व्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहात्।।
EEEEEEEEEEEEEEEEEEE
ZEEEEEEEEE
EEEEEEEEEEE
चन्द्र. - एवमेव कश्चिदेवमपि ब्रूयात् यदुत "नषेधिकीपदप्रयोगकाले आवश्यकी पदप्रयोगः कथं न क्रियते" इति । किन्तु यथाऽत्र उत्तरं दतं, एवं नैषेधिकीप्रयोगकाले इत्यादि ।
ननु अत्र यत्समाधानं दत्तं । तत्तु युक्तम् । किन्तु "नैषेधिकीप्रयोगकाले आवश्यकीपदप्रयोगः कथं नई र संभवति ? इत्यत्र तु सम्यक्समाधानं न भवद्भिर्निगदितमित्यत आह तदानीं उपाश्रयान्तःप्रवेशकाले
आवश्यकक्रियाव्यापारेऽपि चलनालोचनागोचरीप्रदर्शनादिरूपायाः आवश्यकक्रियायाः सद्भावेऽपि उत्तरकालं आलोचना-गोचरीप्रदर्शनादिकरणानन्तरमेव व्यापारपरित्यागाभिप्रायेणैव="सर्वान् व्यापारान् त्यक्त्वा निश्चेष्टो भूत्वा स्वाध्यायध्यानादिषु मग्नोऽहं भविष्यामि" इत्यभिप्रायेणैव तत्प्रयोगात्=उपाश्रयान्तः प्रवेशकाले नैषेधिकीप्रयोगात् अन्यतः आवश्यकीपदप्रयोगात् तदनिर्वाहात् व्यापारपरित्यागाभिप्राय सूचनाऽभावात् ।
જેમ “આવહિના સ્થાને નિસહિ કેમ ન બોલાય ?” એ સમજાવ્યું. એ જ પ્રમાણે નિસીહિના સ્થાને છે આવસહિ કેમ ન બોલાય ?” એ શંકાનું સમાધાન પણ સમજી જ લેવું. એટલે એ શંકા ઊભી ન કરવી. ___ (शिष्य : ५९ मे समाधान स्पष्ट हो तो भंगुद्धिवाणा अमने से सभीय.)
ગુર : ઉપાશ્રયમાં પ્રવેશ કરતી વખતે જો કે આલોચના વગેરે આવશ્યકક્રિયાનો વ્યાપાર ચાલુ જ છે. છતાં છે ઉપાશ્રયમાં પ્રવેશ્યા બાદ તો બધો વ્યાપાર છોડી દેવાના અભિપ્રાયથી જ નિશીહિ બોલાય છે. જ્યારે આવસ્યતિ છે શબ્દમાં તો અવશ્યકર્તવ્ય કામની પ્રતિજ્ઞા કરાય છે. એટલે આવસ્યહિ પ્રયોગ દ્વારા નિરીતિનું કાર્ય સિદ્ધ થઈ છે શકતું નથી.
यशो. - तदिदमभिप्रेत्योक्तं मलयगिरिचरणैः 'आह यद्येवं, भेदेनोपन्यासः किमर्थः ? उच्यतेगमनस्थितिक्रियाभेदादिति ।'
EEEEEEEEEE
EEEEEEEEEEEEEE
चन्द्र. - इदमत्र तत्वं । भिक्षाटनादि कृत्वा उपाश्रयमध्ये प्रविशन् साधुः यद्यपि तदा चलनादिरूपां आवश्यकक्रियां करोति । प्रविश्य च गरवे आलोचनामपि ददाति, गोचरी च दर्शयति । ततश्च प्रवेशानन्तरमपि आवश्यकक्रियाः स साधुः करोत्येव । तथापि ताः क्रियाः तदा तन्मनसि प्रधानरूपतया न विद्यन्ते । किन्तु स एवमेव चिन्तयति यदुत "आलोचनादिकं सर्वं कृत्वा अहं सर्वान् व्यापारान् त्यक्त्वा स्वाध्यायध्याननिमग्नो भवामि" इति । ततश्च तस्य व्यापाराणां परित्यागस्यैवाभिप्रायो भवति । तत्सूचनार्थमेव स नैषेधिकीं करोति ।। यदि च स तदा आवश्यकीप्रयोगं कुर्यात् । तर्हि अयं निषेधः आवश्यकीपदात् कथं लभ्येत ? आवश्यकीप्रयोगो हि "अवश्यकरणीयमेतद्" इति ज्ञापयति । न तु व्यापारनिषेधं ज्ञापयति । ततश्च तत्र नैषेधिकीप्रयोग एवोचितः, नावश्यकीप्रयोग इति । तथा च यद्यपि अभिन्नार्थो एव एतौ, तथापि गमनक्रियाकाले आवश्यकीप्रयोग उचितः, आगमनक्रियाकाले नैषेधिकीप्रयोग उचित इति विवेकः । न हि एकार्था अपि शब्दाः एकत्रैव स्थाने व्यवहर्तुं । युक्ताः । यथा मातृपदं पितृपत्नीपदं च एकार्थे । तथापि व्यवहारकाले मातृपदमेव उच्यते। न कदापि पितृपत्नीपदं। किन्तु "माता नाम किं वस्तु ?" इति प्रश्नो भवति । तदा "पितृपत्नी माता भवति" इति शब्दप्रयोगः क्रियते।
BEEEEET
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૬૦ છે