________________
यशो. - इयाणिं तहक्कारो भन्नइ
BEEE
इदानीं = मिथ्याकारनिरूपणानन्तरं तथाकारो भण्यते -
-
यशो. - सच्चत्तपच्चयद्वं जं अट्ठे किर गुरूवइट्ठम्मि |
તથાકાર સામાચારી
चन्द्र. - इदानीं तथाकारसामाचारीटीकोपरि विषमपदव्याख्या रहस्यप्रकटनञ्च क्रियेते । હવે મિથ્યાકારના નિરૂપણ પછી તરત જ તથાકાર કહેવાય છે.
रुइपुव्वं अभिहाणं लक्खिज्जइ सो तहक्कारो ॥३०॥
चन्द्र. गुरूपदिष्टे अर्थे सत्यत्वप्रतीत्यर्थं यद् रुचिपूर्वं अभिधानं स तथाकारः लक्ष्यते ← इति गाथार्थः । गाथार्थ : गुरुने उपदेशेला अर्थने विशे सय्या होवानुं प्रतिपाहन वा भाटे ('तहत्ति' से प्रमारो) અભિધાન=કથન કરાય. તે તથાકાર તરીકે લક્ષાય છે. (જણાય છે)
यशो. - सच्चत्त त्ति । यत्किल गुरूपदिष्टेऽर्थे रुचिपूर्वं श्रद्धापूर्वं सत्यत्वप्रत्ययार्थम्= अवैतथ्यप्रतिपादकमभिधानं स तथाकारो लक्ष्यते =लक्ष्यीक्रियते ।
चन्द्र. - अर्थे= शास्त्रानुसारिणि तात्त्विके पदार्थे अवैतथ्यप्रतिपादकं = ' भवतां इदं निरूपणं सत्यमेव 'इति निरूपकं अभिधानं='तथा', "सत्यं", "अहो युक्तमुक्तं", "अहो भवतां शास्त्रीयो बोधः" इत्यादिकथनं, लक्ष्यीक्रियते = तादृशप्रतिपादनं लक्षणं, तथाकारसामाचारी च लक्ष्यमिति ।
ગુરુએ કહેલા પદાર્થને વિશે શ્રદ્ધાપૂર્વક સત્યત્વનું પ્રતિપાદક એવું વચન તે તથાકાર કહેવાય છે.
यशो. - तेन तथार्थकप्रयोगान्तरे नाऽव्याप्तिः, न वा स्वभणिते वक्ष्यमाणलक्षणाऽगुरुभणिते वा 'तथेति' प्रयोगेऽतिव्याप्तिः, न वा रुच्यपूर्वे तत्र सा इत्यादि द्रष्टव्यम् ।
चन्द्र. - तेन = अत्र 'गुरूपदिष्टे अर्थे श्रद्धापूर्वकं 'तथा' इतिपदस्यैवाभिधानं तथाकार:' इति नोक्तम्, किन्तु 'अवैतथ्यप्रतिपादकं किञ्चिदपि अभिधानं तथाकार' इति यत् उक्तं । तेन । तथा 'गुरूपदिष्टे अर्थे' इति उक्तं । किन्तु 'येन केनाप्युपदिष्टे अर्थे' इति नोक्तं । तेन । तथा 'रुचिपूर्वकं' इति उक्तं, न तु 'अवैतथ्यार्थप्रतिपादकं रुचिरहितं रुचिसहितं वा अभिधानं' इति उक्तं । तेन । एवं 'तेन' इति पदं यथायोग्यं त्रयाणां अर्थानां वाचकम्।
तत्र ‘अवैतथ्यप्रतिपादकं' इति प्रथमस्य फलमाह तथार्थकप्रयोगान्तरे= " सत्यं भवता उक्तं युक्तमुक्तम्" इत्यादि प्रयोगान्तरे नाव्याप्तिः = यदि 'तथा' इति अभिधानमेव तथाकार इत्युच्येत, तर्हि प्रयोगान्तरेऽव्याप्तिः स्यात् । 'अवैतथ्यप्रतिपादकं' इति विशेषणे तु नेयमव्याप्तिः । यतः प्रयोगान्तराणि अवैतथ्यप्रतिपादकान्येव सन्तीति ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૨૩