________________
મિચ્છાફાર સામાચારી
( शिष्य : मां अपट, परवंयना शी रीते ? )
ગુરુ : આ ફરી ફરી પાપ કરનારા સાધુનો અંતરાત્મા તો દુષ્ટ જ છે. નિશ્ચયથી તો એનું મન પાપથી પાછું ફરેલું જ નથી. અને મનથી પાછો ન હટેલો હોવા છતાં એ ગુરુ વગેરેને ખુશ કરવા માટે જ મિથ્યાદુષ્કૃતને આપે છે. એટલે કપટ અને ગુરુને ઠગવા રૂપ પરવંચના સ્પષ્ટ જ છે.
यशो. - न हि ज्ञात्वा प्रतीपाचरणे निःशूकतया प्रतिबद्धः संवेगः समुत्थातुमुत्सहते । न च तं विना तद्दानं फलवदित्युक्तम् । एवं च तत्र दुर्निवारा माया ।
चन्द्र.- ननु भविष्यत्काले, उपयोगपूर्वकं पापं करिष्यन्नपि मुनिः मिथ्यादुष्कृतदानकाले पापकरणाभिप्रायवानेव भवतीति तु न नियमः । किन्तु तत्काले पश्चात्तापपरिणामोऽपि तस्य संभवति । एवञ्च शुभभावसद्भावात् कथं तस्य विपुलनिर्जरात्मकं फलं न भवतीत्यत आह न हि ज्ञात्वा इत्यादि । ज्ञात्वा = उपयोगपूर्वकं प्रतीपाचरणे = पापासेवने निःशुकतया = निर्दयतया प्रतिबद्धः=निरुद्धः संवेगः=भववैराग्यात्मकः शुभपरिणामः समुत्थातुमुत्सहते = समुत्पद्यते । यो हि मिथ्यादुष्कृतं दत्त्वा तत्र च पुनरकरणनियमप्रतिज्ञां गृहीत्वाऽपि पश्चात् तदेव पापं करोति । तस्यात्मनि महती निष्ठुरता विद्यते इति प्रतीयते । ततश्च मिथ्यादुष्कृतकाले अनुभूयमानः पश्चात्तापपरिणामोऽपि अन्तः विद्यमानया निर्दयतया मन्द एव । निर्दयतापरिणामेन हि विपुलनिर्जराकारी संवेगभावो निरुध्यते । न च तं = संवेगं विना तद्दानं=मिथ्यादुष्कृतदानं फलवद् = विपुलनिर्जराकारि । एवञ्च न तस्य मिथ्यादुष्कृतं ददानस्य विपुलनिर्जरात्मकं फलं भवति ।
अत्र दृष्टान्तः → आहारसंज्ञादिदोषपीडिताः अत एव निष्कारणं विकृतिभक्षणानेषणीयभक्षणादीनि कुर्वाणाः चतुर्थगुणस्थानवर्तिनः संविग्नपाक्षिकाः परत्मात्मभक्तौ अतीवोल्लसिताः, स्वपापस्य मिथ्यादुष्कृतं शुभभावेन ददाना अपि यदि तदैव केनचित् पृच्छ्यन्ते यत् " किं भवद्भिः शैथिल्यं अधुनैव न त्यज्यते ?" इति । तर्हि भक्तिभरमानसा अपि ते तदा शक्तौ सत्यामपि शैथिल्यं त्यक्तुं न शक्नुवन्ति । इयमेव तेषां निर्दयता । ततश्च तादृशनिर्दयतायां सत्यां तत्रोत्पन्नः शुभभावोऽपि "विपुलनिर्जराकारी तीव्रसंवेगरूपः" इति न निश्चीयते ।
न केवलमेतावदेव किन्तु एवं च तत्र दुनिर्वारा माया = भवतु नाम तस्य वास्तविकः पश्चात्तापभावः, तथापि स अपुनःकरणप्रतिज्ञां कृत्वाऽपि पुनः पुनः उपयोगपूर्वकं पापं करोतीति स मायावी एव गण्यते । अत्र माया आत्मगतः परवञ्चनाद्यात्मकाभिप्रायविशेषः एव । परवञ्चनं च तदा गण्यते, यदा परः वञ्च्यते । ततश्च यत्र माया तत्र परवञ्चनस्य भजना इति मायापरवञ्चनयोः भेदः । निश्चयनयो हि पञ्चमषष्ठगुणस्थानवर्तिनां अपुनःकरणसंगतानामेव मिथ्यादुष्कृतदानं सम्यक् मन्यते । प्रथमचतुर्थगुणस्थानवर्तिनां तु पश्चात्तापभाववतामपि मिथ्यादुष्कृतदानं न सम्यक् मन्यते, प्रत्युत मृषावादमायानिकृत्यादिदोषजनकं मन्यते । एतच्च सर्वमग्रे यथावसरं प्रकटयिष्यामि ।
સીધી વાત એટલી જ છે કે જાણી જોઈને ખોટું-ચારિત્રવિરુદ્ધ આચરણ જે સાધુ કરે એ નક્કી નિઃશૂક નિષ્ઠુર જ હોય. અને એટલે એનામાં પડેલી નિષ્ઠુરતા એનામાં સંવેગને ઉત્પન્ન થતો અટકાવે. આમ નિષ્ઠુરતાથી અટકી પડેલો સંવેગ એ આત્મામાં ઉભો થવા માટે, ઉત્પન્ન થવા માટે ઉત્સાહ કરતો નથી. અને સંવેગભાવ
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૭ ૧૦૯