________________
२६ भाषारहस्यप्रकरणे स्त. १. गा. ३
O प्रज्ञापनालापकप्रदर्शनम् O पडुच्च नियमा पंचरसाइं गेण्हति जाई रसओ तित्तरसाई गेण्हति ताइं किं एगगुणतित्तरसाईं गिण्हति जाव अणंतगुणतित्तरसाइं गिण्हति ?, गो.! एगगुणतित्ताइंपि गिण्हइ जाव अणंतगुणतित्ताइंपि गिण्हति, एवं जाव मधुररसो, जाइं भावतो फासमंताइं गेण्हति ताइं किं एगफासाइं गेण्हइ जाव अट्ठफासाइं गिण्हति ?, गो ! गहणदव्वाइं पडुच्च णो एगफासाइं गेण्हति, दुफासाइं गिण्हइ जाव चउफासाइं गेण्हति णो पंचफासाइं गेण्हति, जाव नो अट्ठफासाइं गेण्हति, सव्वगहणं पडुच्च नियमा चउफासाइं गेण्हति, तंजहा सीतफासाइं गेण्हति उसिणफासाइं निद्धफासाइं लुक्खफांसाइं गेहति, जाई फासतो सीताइं गिण्हति ताइं किं एगगुणसीताइं गेण्हति जाव अणंतगुणसीताइं गेण्हति ?, गो.! एगगुणसीताइंपि गेण्हति जाव अणंतगुणसीताइंपि गेण्हति एवं उसिणणिद्धलुक्खाइं जाव अनंतगुणाइंपि हिति, जाई भंते! जाव अनंतगुणलुक्खाइं गेण्हति।
तद्वृत्तिश्चैवम् 'जीवे णं भंते! जाई दव्वाइं भासत्ताए गिण्हइ' इत्यादि सुगमं नवरं 'ठियाई' स्थितानि न गमनक्रियावन्ति द्रव्यतश्चिन्तायामनन्तप्रादेशिकानि - अनन्तरपरमाण्वात्मकानि गृह्णाति, नैकपरमाण्वाद्यात्मकानि तेषां स्वभावत एव जीवानां ग्रहणायोग्यत्वात्, क्षेत्रचिन्तायामसङ्ख्यातप्रदेशावगाढानि, एकप्रदेशाद्यवगाढानां तथास्वभावतया ग्रहणायोग्यत्वात्, कालतश्चिन्तायामेकसमयस्थितिकान्यपि यावदसङ्ख्यसमयस्थितिकान्यपि गृह्णाति, पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात्, तथा चोक्तं व्याख्याप्रज्ञप्तौ सैजनिरेजपुद्गलावस्थानचिन्तायां'अणतपएसिए णं भंते! खंधे केवइकालं सेए ?, गो.! जहन्नेणं एकं समयं उक्कोसेणं आवलियाए असङ्खेज्जतिभागं, निरेए जहन्नेणं एकं समयं उक्कोसेणं असंखेज्जं काल 'मिति, तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग इति स्वभावस्यानन्तरसमये ग्रहणं प्रतिपत्तव्यं, अन्ये तु व्याचक्षते - एकसमयस्थितिकान्यपीति आदिभाषापरिणामापेक्षया द्रष्टव्यं विचित्रो हि पुद्गलानां परिणामः तत एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेकं समयं भाषात्वेनावतिष्ठन्ते केचिद् द्वौ समयौ यावत् केचिदसङ्ख्येयानपि समयानिति, तथा 'गहणदव्वाइं' इति गृह्यन्ते इति ग्रहणानि, ग्रहणान च तानि द्रव्याणि च ग्रहणद्रव्याणि, किमुक्तं भवति ? - यानि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्णपरिणामेन एकेन वर्णेनोपेतानि कानिचिद् द्वाभ्यां कानिचित् त्रिभिः कानिचित् चतुर्भिः कानिचित्पञ्चभिः, यदा पुनरेकप्रयत्नगृहीतानामपि सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णन्ति (ह्णाति ), एवं गन्धरसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेध एकस्यापि परमाणोरवश्यं स्पर्शद्वयभावात्, तथा चोक्तम्"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ।" [ ] द्विस्पर्शानिमृदुशीतानि मृदूष्णानीत्यादि, 'जाव चउफासा' इति यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः, तत्र त्रिस्पर्शान्येवं-कानिचित् द्रव्याणि किल मृदुशीतस्पर्शानि कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शो मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपौ तु द्वावन्यौ स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि, एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि, कानिचिच्चतुःस्पर्शानि तत्र चतुःस्पर्शेषु मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ सूक्ष्मस्कन्धेषु तयोरवश्यंभावात्, अन्यौ तु द्वौ स्पर्शो स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीतौ, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति तत्र यौ द्वौ मृदुलघुरूपौ स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचाराभावान्न गण्येते ये त्वन्ये स्निग्धादयश्चत्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह, तद्यथा - 'सीयफासाइं गेण्हइं' इत्यादि सुगमं यावत् 'जाई भंते! असंख्यात गुनी, अनंत गुनी, अनंत भाग, असंख्य भाग और संख्यात भाग अधिक होती है। इसी तरह कतिपय अन्य भाषाद्रव्य के स्पर्श की मात्रा विवक्षित भाषाद्रव्य के स्पर्श की मात्रा की अपेक्षा अनंतभाग हीन, असंख्यातभाग हीन, संख्यातभाग हीन, संख्यात गुनी हीन, असंख्यातगुनी हीन और अनंतगुनी हीन होती है। इस तरह भाषाद्रव्यों के वर्ण-गंध-रस स्पर्श की मात्रा में षट्स्थान वृद्धि हानि होती है। यह सब अपनी मनमानी कल्पना नहीं है किन्तु शास्त्रानुसारी वास्तविकता है। इस विषय के सम्बन्धी आलापकों का=सूत्रों का प्रज्ञापना नामक चतुर्थ उपांग के ग्यारहवें भाषापद में से अनुसंधान करे- ऐसी विवरणकार ने सूचना की है । । ३ ।