SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३३६ भाषारहस्यप्रकरणे - स्त.५. गा. ९९ ०'भगवन्तः सर्वोत्कृष्टज्ञानवन्तो न तु संपूर्णज्ञानवन्त' इतिमतापाकरणम् ० स्वस्वभावसमवस्थाने, परिनिष्ठितस्य प्राप्तनिष्ठस्य, तथा हितं = आयतिगुणावहं, मितं च = स्तोकं, प्रकर्षेण = अवसरोचितत्वादिलक्षणेन, भाषमाणस्य महर्षेर्भाषा चरणं = चारित्रं, विशुद्ध = विपुलनिर्जराप्रवणं करोति ।।९८ ।। ततः किमित्याह। 'चरित्तसोहीइ खवित्तु मोहं, लद्धं तओ केवलनाणलच्छिं। सेलेसिजोगेण सुसंवुडप्पा, अणुत्तरं पावइ मुक्ख-सुक्खं ।।९९।। चारित्रशुद्ध्या मोहं = अष्टाविंशतिप्रकृतिमयं कर्म, क्षपयित्वा ततः = तदनन्तरं, केवलज्ञानलक्ष्मी लब्ध्वा = सयोगिकेवलिभावमनुभूय, उत्कर्षतः पूर्वकोटी यावद् विहृत्य, शैलेशीयोगेन = योगत्रयनिरोधकरणेन, सुसंवृतः = सर्वसंवरभाक, आत्मा, यश्चैतादृशो महर्षिः, अनुत्तरं = सकलसांसारिकसुखसमूहादनन्तगुणत्वेन दुःखलेशासंपृक्ततया चातिशायितं, मोक्षसौख्यं प्राप्नोति ।।९९ ।। आयतिगुणावहमिति भाविनि गुणानुबन्धिनम्। अवसरोचितत्वादिलक्षणेनेति। आलोचनपूर्वक-स्फुट-प्राञ्जलमधुरत्वादेरादिपदेन ग्रहणम्। विशुद्धमिति। तदुक्तं दशवैकालिके भासाइ दोसे गुणे अ जाणिआ, तीसे अ दुढे परिवज्जए सया। छसु संजए सामणिए सया जए, वइज्ज बुद्धे हिअमाणुलोमिअं।। परिक्खभासी सुसमाहिइंदिए चउक्कसायावगए अणिस्सिए। से निद्धुणे धुतमलं पुरेकडं आराहए लोगमिणं तहा परं ।। (द.वै.७/५६-५७)।।९८।। केवलज्ञानलक्ष्मीमिति। केवलं=पूण ज्ञानमेव लक्ष्मीः तामित्यर्थः । अनेन सर्वोत्कृष्टं ज्ञानं संभवति न तु पूर्णज्ञानमित्यादिः अधुनातनानां केषाञ्चित् प्रलापः परास्तः सम्पूर्णावरणविलये आवृतस्य पूर्णाभिव्यक्तेः न्याय्यत्वात्, अन्यथा पटाद्यावरणविलये घटादेरपि सकलाभिव्यक्तिर्न स्यात् । किञ्चैवं हि सदा सर्वेषां केवलिनां ज्ञानाऽसाम्यप्रसङ्गात्, कालविशेषेऽप्रकृष्टज्ञानवतामपि स्वस्वापेक्षयाऽधिकतरज्ञानवदभावे सर्वज्ञत्वापत्तेः, तस्य विद्यमानत्वे एवान्यस्य ज्ञानवृद्धौ सत्यामेकदा सर्वज्ञतयाऽभिमतस्यान्यदाऽसर्वज्ञत्वापत्तेश्चेति। न च जीवकर्मसंयोगादीनां प्राथम्यज्ञानाभावान्न तेषां सर्वज्ञत्वमिति वाच्यम्, तेषां अनादित्वेन तत्प्राथम्यज्ञानऽसम्भवात्, सम्भवे वा भ्रान्तत्वापत्तेः। न चात्मकर्मसङ्योगादीनां सादित्वाभ्युपगमे किं वच्छिन्नं? इति वक्तव्यम्, एवं सति सिद्धानामपि संसारित्वप्रसक्तेरिति दिक् । सयोगिकेवलिभावमनुभूयेति। अनेन तत्त्वज्ञानाधिगमानन्तरं ताजविदेहमुक्तिरेव न तु जीवन्मुक्तिः कस्यापीति मतं निरस्तम् तत्सत्त्वेऽपि प्रारब्धानपवर्तनीयायुःकर्मादेः प्रतिबन्धकस्य सत्त्वे विदेहमुक्तिविरहस्य न्याय्यत्वात् अत एव जीवन्मुक्तिस्वीकारस्योचितत्वादिति दिक। योगत्रयनिरोधकरणेनेति। अनेन ज्ञानादेव केवलाद् निःश्रेयसाधिगमः न तु क्रियाऽपराभिधानेन कर्मणेति मतं प्रत्युक्तम्, एवं सति जीवन्मुक्त्युच्छेदप्रसङ्गात् अनन्यथासिद्धाऽव्यवहितपूर्ववर्त्तित्वेन कर्मण्यपि मुक्तिकारणत्वस्य न्याय्यत्वाच्चेति दिक। समस्या का समाधान महामहोपाध्यायजी ९९ वीं गाथा से बताते हैं। गाथार्थ :- चारित्र विशुद्धि से मोह का क्षय कर के, केवलज्ञानरूप लक्ष्मी को प्राप्त कर के, शैलेशी योग से सुसंवृत महर्षि अनुत्तर मोक्षसुख को प्राप्त करते हैं।९९। विवरणार्थ :- चारि. इति। मोहनीय कर्म का, जिसके २८ अवान्तर भेद हैं, चारित्र विशुद्धि द्वारा क्षय करने के बाद महर्षि केवलज्ञानरूप लक्ष्मी को प्राप्त करते हैं। सयोगी केवली की अवस्था का अनुभव कर के उत्कर्ष से पूर्व क्रोड वर्ष पर्यन्त विहार कर के शैलेशी योग से, जिसमें मन वचन और काया रूप तीन योग का संपूर्ण निरोध होता है, सर्व संवर को प्राप्त कर के पूर्वोक्त महर्षि अनुत्तर मोक्ष सुख को प्राप्त करते हैं। शंका :- मोक्ष सुख को अनुत्तर क्यों कहा गया है? सांसारिक-वैषयिक-स्वर्गीय सुख को ही अनुत्तर कहना चाहिए, क्योंकि इससे बढ़ कर दूसरा सुख कौन सा हो सकता है? १ चारित्रशोध्या क्षपयित्वा मोहं लब्ध्वा ततः केवलज्ञानलक्ष्मी। शेलेशीयोगेन सुसंवृतात्मा अनुत्तरं प्राप्नोति मोक्षसौख्यम् ||९९ ।।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy