________________
* एकान्तवादसमालोचना *
योर्विरुद्धयोरसम्भवात् सत्त्वे चैकस्मिन् धर्मेऽसत्त्वस्य धर्मान्तरस्याऽसम्भवात् असत्त्वे चैवं सत्त्वस्याऽसम्भवात्, असङ्गतमिदमार्हतं मतं । (शा.भा. २ / २ / ६-३३) इत्युक्तं तदविचारितरमणीयम्, विरोधस्याऽसिद्धत्वात्। स्वद्रव्यादिचतुष्टयेन वस्तुनः सत्त्वस्येव परद्रव्यादिचतुष्टयेनाऽसत्त्वस्योपलम्भात् । तदुक्तं सप्तभंगीतरंगिण्यां 'न खलु वस्तुनः सर्वथा भाव एंव स्वरूपं स्वरूपेणेव पररूपेणाऽपि सत्त्वप्रसङ्गात् । नाऽपि अभाव एव, पररूपेणेव स्वरूपेणाप्यभावप्रसङ्गात्।' (स.त. पृ. ८३) ।
१२९
एतेन जैना वस्तुमात्रं अस्तित्व - नास्तित्वादिना विरुद्धधर्मद्वयं योजयन्ति, तन्नोपपद्यते एकस्मिन् वस्तुनि सत्त्वा - सत्त्वादेर्विरुद्धधर्मस्य छायातपवत् युगपदसम्भवात् इति निबार्कभाष्यवचनं निरस्तम्, छायातपयोरेकत्रैवाऽवच्छेदकभेदेन वर्तमानत्वात्, तदुक्तं सप्तभंगीतरंगिण्यां-यथैकत्र चलाचलात्मनोर्वृक्षादौ रक्तारक्तात्मनोर्घटादौ आवृतानावृतात्मनोः शरीरादौ चोपलम्भादविरोधः तथा सत्त्वासत्त्वयोरपि । किञ्च निबार्कभाष्यटीकायां - जगद्ब्रह्मणोर्भेदाभेदौ स्वाभाविकौ श्रुतिस्मृतिश्रुतसाधितौ भवतः कोऽत्र विरोधः ? इति वदन् श्रीनिवासाचार्यः प्रत्यक्षानुमानागमतर्कादिप्रमाणसिद्धं वस्तुनः सत्त्वासत्त्वात्मकत्वं कथं प्रतिक्षिपेत् ?
एतेन यदपि वेदान्तदीपे रामानुजाचार्येण - एकस्य पृथिवीद्रव्यस्य घटत्वाश्रयत्वं शरावत्वाश्रयत्वं च प्रदेशभेदेन न तु एकेन प्रदेशेनोभयाश्रयत्वं यथैकस्य देवदत्तस्योत्पत्तिविनाशयोग्यत्वं कालभेदेन । न ह्येतावता द्वयात्मकत्वम् अपि तु परिणामशक्तियोगमात्रं इत्युक्तं तत्प्रत्युक्तम् एकस्मिन्नेव देवदत्तेऽपेक्षाभेदेन पितृपुत्रोभयात्मकत्वमिवैकस्मिन्नेव घटादावपेक्षाभेदेन युगपदेव सत्त्वासत्त्वसमावेशेन सत्त्वासत्त्वोभयात्मकत्वस्य न्याय्यत्वात् । अनेनैवाभिप्रायेण सोमिलवक्तव्यताधिकारे दव्वट्टयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसट्टयाए अक्खए वि अहं (भ.सू.श. १८/उ. १०/सू. ६४८) इति सोमिलं प्रत्युवाच परमेश्वरः ।
एतेन भास्करभाष्ये- सर्वमनेकान्तमिति निश्चीयते न वा ? यदि निश्चीयते तर्हि एकान्तप्रसक्तिः । यदि न निश्चीयते तर्हि निश्चयस्यापि अनिश्चयरूपत्वेन निश्चयरूपत्वं न सम्भवेत् । अत एतादृशः शास्त्रप्रणेता तीर्थंकर उन्मत्ततुल्य इति वदन्नुन्मत्ततुल्यो भास्कराचार्यो निराकृतः अनेकान्तस्य सम्यगेकान्ताऽविनाभावित्वात्, अन्यथाऽनेकान्तस्यैवाऽघटनात् । तदुक्तं स्वयंभूस्तोत्रे समन्तभद्रार्येण अनेकान्तोऽप्यनेकान्तः प्रमाणनयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितानयात् ।। (बृ. स्व. स्तो. श्लो. १०३ )
अत एव - 'त्वत्तीर्थकरवचनं किं सत्यम् ? आहोस्विदसत्यमिति ? सत्यमेवेति न युक्तं एकान्तवादप्रसङ्गाद्’ इत्यादि न्यायभूषणकारवचनं परास्तम् तीर्थकरवचनस्यापि स्वविषये प्रमाणत्वात् परविषयेऽप्रमाणत्वात्, तदुक्तं वादमहार्णवे - प्रमाणपि स्वविषये प्रमाणं परविषये चाऽप्रमाणमिति स्याद्वादिभिर्मन्यत एव ( ) ।
भामत्यां 'सत्यं यदस्ति वस्तुतः तत्सर्वथा सर्वदा सर्वात्मना निर्वचनीयेन रूपेणाऽस्त्येव, न नास्ति, यथा प्रत्यगात्मा' (ब्र.सू. २/२/३३ भा.) इति वदन्वाचस्पतिमिश्रस्तु शतं शिरच्छेदेऽपि न ददाति, विंशतिपञ्चकं तु प्रयच्छतीति किमत्र बूमः ? सर्वथेति प्रथममुक्त्वा पश्चान्निर्वचनीयेन रूपेणेति वदन् कोट्यन्तरनिषेधं कुर्वन् प्रतिनियतरूपेण वस्तुनोऽस्तित्वं प्रतिपादयन् सोऽपि स्याद्वादे निपतति । यदपि श्रीकण्ठभाष्ये- 'एकस्मिन् वस्तुनि घटसत्ता घट के द्रव्यादि चतुष्क से अतिरिक्त नहीं है। घट के द्रव्यादि चतुष्क को छोड देने पर घट की सत्ता ही न रहेगी। अतः घट के द्रव्यादिचतुष्क घटसत्ता के घटक हैं, व्यंजक नहीं। इसी तरह तंतु आदि परद्रव्य, पटअवगाहनाक्षेत्र, पटकाल और आतान-वितानादि परभाव को छोड़ कर घट की असत्ता ही नहीं है। अतः घट की असत्ता परद्रव्यादि चतुष्क को छोड कर अतिरिक्त नहीं है। परद्रव्यादि को छोड देने पर घट की असत्ता ही न रहेगी । अतः यह सिद्ध होता है कि - परद्रव्य आदि चतुष्क घट की असत्ता के घटक हैं, व्यंजक नहीं । अतः घट की सत्ता और असत्ता भी स्व-पर- द्रव्यादिचतुष्करूप भिन्न निमित्त से सापेक्ष