________________
परिशिष्ट-१
'ओसन्न' गाहा, अवसनस्य सामान्यशब्दतया पार्श्वस्थादेहिणो वा सुश्रावकस्य किम्भूतस्य जिनवचनतीव्रभावितमतेरहंदागमगाढरञ्जितचित्तस्येत्यर्थः क्रियते यदनवद्यं यदुचितमित्यर्थः स च कदाचित् प्रियधर्ममात्रतया भवत्यत आह-दृढसम्यक्त्वस्य, किं सर्वदा क्रियते ? नेत्याह-अवस्थासु द्रव्यक्षेत्रकालभावापदादिषु कारणेषु नान्यदा ॥३५२।।
तथा चाह - पासत्थोसनकुसीलणीयसंसत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जिति ।।३५३।।
'पासत्थो' गाहा, पार्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः आवश्यकादिष्ववसदनादवसन्नः, कुत्सितं शीलमस्येति कुशीलः, नित्यमेकत्र वासयोगानित्यः, परगुणदोषेषु संयोगात् संसक्तः, पार्श्वस्थश्चासाववसनश्चेत्यादिद्वन्द्वस्त एव जनस्तं तथा यथाच्छन्दं स्वाभिप्रायमागमनिरपेक्षतया प्रवर्त्तत इति यथाछन्दस्तं पृथक्करणमस्य गुरुतरदोषख्यापनार्थम्, ज्ञात्वा तं पार्श्वस्थादिजनं सुविहिताः साधवः सर्वप्रयत्नेन वर्जयन्ति तत्सङ्गमस्यानर्थहेतुत्वादिति ।।३५३।।
केषु पुनः स्थानेषु वर्तमानेषु वर्तमानः पार्श्वस्थादितां यातीत्याशक्य तान्येवाह - बायालमेसणाओ, न रक्खइ धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओ सन्निहिं खाइ ॥३५४।।
'बायाल०' गाहा, द्विचत्वारिंशदेषणाः पूर्वोक्तस्वरूपा न रक्षति धात्रीशय्यापिण्डं च, तत्र धात्रीपिण्डः यो बालक्रीडनादिना लभ्यते, तस्य चैषणाग्रहणेनागतत्वेऽपि पुनः पृथगुपादानं यतेर्गृहस्थसम्बन्थो महतेऽनयेति दर्शनार्थम्, शय्यापिण्डः शय्यातरपिण्डस्तं च न रक्षति आहारयत्यभीक्ष्णमनवरतं विकृतीः क्षीराद्याः सन्निधिं पर्युषितगुडादिरूपं खादति भक्षयतीति ।।३५४।।
सूरप्पमाणभोई, आहारेई अभिक्खमाहारं । न य मंडलिए भुंजइ, न य भिक्खं हिंडई अलसो ॥३५५।।
'सूर०' गाहा, सूर्यप्रमाणेन यावदादित्यस्तिष्ठति तावद् भोक्तुं शीलमस्येति सूरप्रमाणभोजी, आहारयत्यभीक्ष्णमाहारमशनादिकं न च नैव मण्डल्यां साधुभिः सह भुङ्क्ते न च भिक्षां हिण्डतेऽलसः आलस्योपहतत्वादिति ।।३५५।।।
कीवो न कुणइ लोयं, लज्जइ पडिमाइ जल्लमवणेइ । सोवाहणो य हिंडइ, बंधइ कडिपट्टयमकज्जे ॥३५६।।
'कीवो०' गाहा, क्लीबो हीनसत्त्वो न करोति लोचं केशोत्पाटनम्, लज्जति प्रतिमया कायोत्सर्गेण, जल्लं मलमपनयति करतोयादिभिः सहोपानद्भ्यां वर्तत इति सोपानत्कश्च हिण्डते, बध्नाति कटीपट्टकं कट्यां चोलपट्टकमकार्ये कारणं विना, एतच्च सर्वपदेषु सम्बन्धनीयमिति ।।३५६।।
गामं देसं च कुलं, ममायए पीढफलगपडिबद्धो । घरसरणेसु पसज्जड़, विहरइ य सकिंचणो रिक्को ।।३५७।। 'गामं' गाहा, ग्राममुपलक्षणं चेदं नगरादीनां, देशं च लाटदेशादिकं, कुलमुग्रादिकं, 'ममायए' त्ति