________________
परिशिष्ट - १
'समये' सिद्धान्ते 'गम्भीरभावानि' महामतिगम्याभिप्रायाणि सन्तीति शेषः । । १०६ ॥
ततः किमित्याह
तेसिं विसयविभागं, अमुणंतो नाणवरणकम्मुदया ।
मुज्झइ जीवो तत्तो, सपरेसिमसग्गहं जणइ ।। १०७ ।। इति ।
तेषां सूत्राणां विषयविभागम् अयमस्य सूत्रस्य विषयोऽयं चामुष्य इत्येवंरूपममुणन्नलक्षयन् ज्ञानावरणकर्मण उदयाद्धेतोर्मुह्यति मोहमुपयाति जीवः - प्राणी, ततः स्वपरयोरात्मनः परस्य च पर्युपासकस्यासद्ग्रहमसबोधं जनयति, जमालिवत् । तत्कथा चातिप्रतीतत्वान्न वितन्यत इति । । १०७ ।।
-
***
१९५
(३१) पृ. ८७ पं. १९
(आवश्यक नियुक्ति)
तत्र यस्मात् श्रावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम आह— तत्थ समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमइ, संमत्तं उवसंपज्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थि अदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा पुव्विं अणालत्तएणं आलवित्तए वा संलवित्त वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाडं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे परमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा- संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् ) ।।
अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन् मिथ्यात्वात्-तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति- निवर्त्तते, न तन्निवृत्तिमात्रमत्राभिप्रेतं, किं तर्हि ?, तन्निवृत्तिद्वारेण सम्यक्त्वं तत्त्वार्थश्रद्धानरूपं उप-सामीप्येन प्रतिपद्यते, सम्यक्त्वमुपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते 'अद्यप्रभृति' सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ? - अन्यतीर्थिकान्चरकपरिव्राजक- भिक्षुभौतादीन् अन्यतीर्थिकदेवतानि - रुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा (अर्हत्) चैत्यानि - अर्हत्प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा नमस्कर्तुं वा, तत्र वन्दनं- अभिवादनं नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्त्तनं, को दोषः स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वादिस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा तत्र सकृत् सम्भाषणमालपनं पौनःपुन्येन संलपनं, को दोषः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन गृहागमनं कुर्युः, अथ च श्रावकस्य स्वजनपरिजनोऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति तथा तेषामन्यतीर्थिकानां अशनं घृतपूर्णादि पानंद्राक्षापानादि खादिमं-त्रपुषफलादि स्वादिमं - कक्कोललवङ्गादि दातुं वा अनुप्रदातुं वा न कल्पत इति,