________________
परिशिष्ट-१ ।। गुरुतत्त्वसिद्धौ समुपदर्शितानां साक्षिपाठानां सवृत्तिकं उपन्यासः ।। (१) पृ. ४ पं. ११
(आवश्यकनियुक्ति) साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाह - पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥१॥ (प्र०)
व्याख्या-किलेयमन्यकर्तृकी गाथा सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः -
'सो पासत्थो दुविहो सब्वे देसे य होइ णायव्वो । सव्वंमि णाणदंसणचरणाणं जो उ पासंमि ।।१।। (स पार्श्वस्थो द्विविधः-सर्वस्मिन् देशे च भवति ज्ञातव्यः । सर्वस्मिन् ज्ञाद्रनदर्शनचरणानां यस्तु पार्श्वे ।।१।।) देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ।।२।। (देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा । नित्यं चाग्रपिण्डं भूनक्ति निष्कारणेन च ।।२।।) कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥३॥' (कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ।।३।।) अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽवि य दुविहो सब्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य णायव्यो ।।१।।' (अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ।।१।।) देशावसन्नस्तु - 'आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तढे । आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे ।।२।। (आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभक्तार्थे । आगमने निर्गमने स्थाने च निषीदने त्वग्वर्त्तने ।।२।।) आवस्सयाइयाइं ण करे करेइ अहवावि हीणमधियाइं । गुरुवयण वलाइ तथा भणिओ एसो य ओसन्नो ।।३।।