________________
प्रतिभाशत / श्लोड : 03
૧૨૧૭
व्याख्या - काममनुमतमिदं यदुत 'उभयाभावः ' सावद्येतरक्रियाभावः प्रतिमासु, तथापि फलं पुण्यलक्षणमस्ति = विद्यते मनसो विशुद्धिः=मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणम्, न नमस्करणीयवस्तुगताक्रियाऽऽत्मान्तरे फलाभावात् । यद्येवम्, किं प्रतिमाभिः ? इत्युच्यते, तस्याः पुनर्मनोविशुद्धेः कारणं निमित्तं भवति प्रतिमा, तद्द्वारेण तस्याः संभूतिदर्शनादिति गाथार्थः ।
आह - एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येव, उच्यते
" जइवि अ पडिमाओ जहा मुणिगुणसंकप्पकारणं लिंगं ।
उभयमवि अत्थि लिंगे ण य पडिमासूभयं अत्थि" ।। [ आवश्यकनिर्युक्ति गाथा - ११३५ ] व्याख्या - यद्यपि प्रतिमा यथा, मुनीनां गुणा मुनिगुणा = व्रतादयस्तेषु सङ्कल्पोऽध्यवसायः मुनिगुणसङ्कल्पः, तस्य कारणं निमित्तं मुनिगुणसङ्कल्पकारणं लिङ्गं = द्रव्यलिङ्गम्, तथापि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे=सावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्संकल्प स एव पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः क्लेशफलश्चासौ विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति चेष्टारहितत्वात्, ततश्च तासु जिनगुणविषयस्य संक्लेशफलस्य विपर्याससङ्कल्पस्याभावः सावद्यकर्मरहितत्वात् प्रतिमानाम्, आह-इत्थं निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति, उच्यते तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्तेर्नाभाव इति ।
तथा चाह
" नियमा जिणेसु उ गुणा पडिमाउ दिस्स जे मणे कुणइ ।
आह च
व्याख्या - नियमादिति-नियमेन = अवश्यंतया जिनेषु = तीर्थकरेष्वेव, 'तु' शब्दस्यावधारणार्थत्वात् गुणा=ज्ञानादयः न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् मनसि करोति = चेतसि स्थापयति पुनर्नमस्करोति अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः सावद्यकर्मरहितत्वात्, न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससंकल्पः सावद्यकर्मोपेतवस्तुविषयत्वात् तस्य, ततश्चोभयविकल एवाकारामात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, अगुणेत्वित्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वादविद्यमानगुणानेव विजानन्नवबुद्ध्यमानः पार्श्वस्थादीन् ‘कं णमउ मणे गुणं काउं’ कं मनसि कृत्वा गुणं नमस्करोतु तानि इति । स्यादेतदन्यसाधुसंबन्धिनं तेष्वध्यारोपमुखेन मनसि कृत्वा नमस्करोतु, तद् न, तेषां सावद्यकर्मयुक्ततया अध्यारोपविषयलक्षणविकलत्वादविषये चाध्यारोपमपि कृत्वा नमस्कुर्वतो दोषदर्शनात् ।
वियात कं णमउ मणे गुणं काउं" ।। [ आवश्यकनिर्युक्ति गाथा - ११३६ ]
-
"जह वेलंबगलिंगं जाणं तस्स णमओ हवइ दोसो ।
द्विंधसमिय णाऊण वंदमाणे धुवो दोसो" ।। [ आवश्यकनिर्युक्ति गाथा - ११३७]