SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ૧૨૧૬ एष दृष्टान्तोऽयमर्थोपनयः - प्रतिभाशत / श्लोड : 03 "लिंग जिणपन्नत्तं एवं नमंतस्स णिज्जरा विउला । जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहीए" ।। [ आवश्यकनिर्युक्ति गाथा - ११३१] व्याख्या - लिङ्ग्यते साधुरनेनेति लिङ्गं रजोहरणादिधरणलक्षणं जिनैः = अर्हद्भिः प्रज्ञप्तं प्रणीतम्, एवं प्रतिमा इति नमस्कुर्वतो निर्जरा विपुला यद्यपि गुणैर्मूलोत्तरगुणैर्विविधमनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीनं वन्दते=नमस्करोति अध्यात्मशुद्ध्या = चेतः शुद्ध्येति गाथार्थः ।। इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वैषम्यमुपदर्शयन्नाचार्याह - "संता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । नय सावज्जा किरिया इयरेसु धुवा समणुमन्ना" ।। [ आवश्यकनिर्युक्ति गाथा - ११३२] व्याख्या-सन्तो=विद्यमानाः शोभना वा तीर्थकरस्य गुणा ज्ञानादयः, क्व? तीर्थकरेऽर्हति भगवति, इयं च प्रतिमा तस्य भगवतः, तेषां नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु सावद्या=सपापा, क्रिया=चेष्टा, तासु=प्रतिमासु, इतरेषु=पार्श्वस्थादिषु, ध्रुवाऽवश्यंभाविनी सावद्या क्रिया, प्रणमतस्तत्र किम् ? इत्यत आह‘समणुमन्ना’ समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावद्यक्रियानुमतिरिति हृदयम् । अथवा सन्तस्तीर्थकरगुणास्तीर्थकरे, तान् वयं प्रणमामः, तेषामिदमध्यात्मम् = इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टा प्रतिमा प्रणमनान्नमस्कर्तुर्न च सावद्या क्रिया परिस्पन्दनलक्षणा, इतरेषु = पार्श्वस्थादिषु, पूज्यमानेष्वशुभक्रियोपेतत्वात् तेषां नमस्कर्त्तुर्धुवा समनुज्ञेति गाथार्थः ।। पुनरप्याह चोदक : "जह सावज्जा किरिया नत्थि पडिमासु एवमियरावि । तय भावे त्थि फलं अह होइ अहेउगं होइ " ।। [ आवश्यकनिर्युक्ति गाथा - १९३३ ] व्याख्या-यथा सावद्या क्रिया = सपापा क्रिया, नास्त्येव = न विद्यत एव प्रतिमासु, एवमितरापि निरवद्यापि नास्त्येव। तदभावे निरवद्यक्रियाऽभावे नास्ति फलं पुण्यलक्षणम्, अथ भवति, अहेतुकं भवति=निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्वात्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः । इत्थं चोदकेनोक्ते सत्याहाचार्यः : "कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धिओ । ती पुण मणविसुद्धीए कारणं होंति पडिमाओ" ।। [ आवश्यकनिर्युक्ति गाथा - ११३४]
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy