________________
૪૨૭
प्रतिभाशतs/cs : 30 પૂજા કરનારના ચિત્તમાં પણ શુભયોગ છે; તેને કારણે મુનિની ઉપયોગપૂર્વકની ક્રિયા જેમ શુભક્રિયા છે, તેમ સમ્યક્ત હોતે છતે દેવપૂજાદિ ક્રિયા શુભક્રિયા છે, એ પ્રમાણે અમે સ્વીકારીએ છીએ. તેથી પરમતમાં પ્રવેશનો અભાવ છે. टीका:
अत एव परमतमुपन्यस्य एवं दूषितं सूत्रकृते -
जाणं काएणणाउट्टी, अबुहो जं च हिंसइ । पुट्ठो संवेदइ परं, अवियत्तं खु सावज्ज"।। जानन् मनोव्यापारमाश्रेणैव यः प्राणिनो हिनस्ति, कायेन परमनाकुट्टि: अहिंसकः, अबुधो मनोव्यापाररहितो यश्च हिनस्ति प्राणिनं कायव्यापारमात्रेणैव, तत्रोभयत्र न कर्मोपचीयते । एतेन परिज्ञोपचिताविज्ञोपचितभेदद्वयग्रहः, च शब्देनैर्यापथस्वप्नान्तिकभेदद्वयं गृह्यते । र्यापथप्रत्ययमैर्यापथम्, तत्रानभिसन्धेर्यत्प्राणिव्यापादनम्, ततो न कर्मोपचयः । स्वप्न एव लोकोक्त्या स्वप्नान्त:, स विद्यते यत्र तत् स्वप्नान्तिकम्, तदपि न कर्मबन्धाय, स्वप्ने भुजि क्रियात: तृप्तेरिव कर्मणोऽप्यभावात् । कथं तर्हि हिंसा संपद्यते ? कथं च तत्कर्मबन्धः इति चेत् ? 'प्राणी प्राणिज्ञानं, घातकचित्तं च, तद्गता चेष्टा, प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा, इत्युक्तपदानां संयोगेन द्वात्रिंशद्भङ्गेषु प्रथमभेदेन । प्रागुक्तभेदचतुष्टयात् किं सर्वथा कर्मबन्धाभावः ? 'न' इत्याह'पुट्ठोत्ति' परं केवलं स्पृष्टस्तेनाव्यक्तं सावधं वेदयति, स्पर्शमात्राधिकं विपाकं नानुभवति, कुड्यापतितसिक्तामुष्टिवत् स्पर्शानन्तरमेव तत्कर्म परिशटतीत्यर्थः । कथं तर्हि कर्मोपचीयते ? इत्याह-'संतिमे तओ आयाणा, जेहिं कीरइ पावगं, अभिकम्माय पेसाय मणसा अणुजाणिया'।। सन्त्यमूनि त्रीणि आदानानि कारणानि यैः क्रियते पापम्, तथाहि-अभिक्रम्य-आभिमुख्येन प्राणिनः क्रान्त्वा तदभिमुखं चित्तं विधाय यत्र स्वत एव प्राणिनं व्यापादयति तदेकं कर्मादानम्, तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिनो व्यापादनं तद् द्वितीयम्, तथाऽपरं व्यापादयन्तमनुजानीते तत् तृतीयम् । परिज्ञोपचितादस्यायं भेदः, तत्र केवलं मनसा चिन्तनम्, इह परेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति । तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायश्च प्राणातिपातश्च, तत्रैव कर्मोपचयो नान्यत्रेति सिद्धम् । एतदेव दर्शयन् फलनिगमनमाह - “एए तु तओ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए निव्वाणमभिगच्छइ" ।। एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वाऽऽदानानि यैर्दुष्टाध्यवसायसव्य-पेक्षैः पापकं कर्म क्रियते-उपचीयते । एवं स्थिते भावविशुद्ध्या, अरक्तद्विष्टमनसा प्रवर्तमानस्य सत्यपि प्राणातिपाते विशुद्धेर्न कर्मोपचयः, तदभावाच्च निर्वाणंसर्वद्वन्द्वोपरतिः । भावविशुद्ध्या, प्रवृत्तौ न बन्ध इत्यत्र दृष्टान्तमाह - "पुत्तं पिया समारब्भ आहरिज्ज असंजए । भुंजमाणो उ मेहावी, कम्मुणा नोवलिप्पई" ।। “पुत्रं पिता समारभ्य व्यापाद्य तथाविधापदि द्द छु आहारेदरक्तद्विष्टोऽसंयतो गृहस्थस्तत् पिशितं भुजानः 'तुः' अप्यर्थः। मेधावी अपि संयतोऽपीत्यर्थः । कर्मणा–पापेन नोपलिप्यते नाश्लिष्यते । यथा पितुः पुत्र व्यापादयतस्तत्ररक्त-द्विष्टमनसो न कर्मबन्धस्तथाऽन्यत्रापि