________________
પ્રતિમાશતક/ શ્લોકઃ ૨૧ પ્રવૃત્તિના હેતુરૂપ બને છે, તેથી જ અભિનવ શુભકર્મ બંધાતું નથી. પરંતુ જે મુનિઓને પ્રશસ્ત શુભ ભાવ વર્તે છે, તેમને જીવોના કલ્યાણની તીવ્ર વાંછારૂપ પ્રશસ્તભાવને કારણે પુણ્યાનુબંધી પુણ્ય પણ બંધાય છે.
टी :- .
तथा च दानाष्टकं हारिभद्रम् -
“कश्चिदाहास्य दानेन क इवार्थः प्रसिध्यति । मोक्षगामी ध्रुवं ह्येष यतस्तेनैव जन्मना ।।१।। उच्यते कल्प एवास्य, तीर्थकृन्नामकर्मणः । उदयात्सर्वसत्त्वानां हित एव प्रवर्तते" ।।२।।
कल्पः करणं क्रियाजातं समाचार इत्यनान्तरम् । तदाहुः-'सामर्थ्य वर्णनायां च छेदने करणे तथा औपम्ये चाधिवासे च कल्पशब्दं विदुर्बुधाः” इति ततश्च कल्पपरिपालनं विनाऽस्य नान्यत्फलमिति भावना । धर्मावयवत्वख्यापनार्थं वा तदित्याह .
“धर्माङ्गख्यापनार्थं च, दानस्यापि महामतिः ।
अवस्थौचित्ययोगेन, सर्वस्यैवानुकम्पया" ।।३।।
अङ्गम् अवयवः । महामतिरित्यनन्तरं महादानं दत्तवानिति करणीयम् । सर्वस्यैतस्य गृहिणो यतेर्वेत्यर्थः । धर्माङ्गत्वमेव स्पष्टयति -
“शुभाशयकरं ह्येतदाग्रहच्छेदकारि च । सदभ्युदयसाराङ्गमनुकम्पाप्रसूति च" ।।४।।
शुभाशया-शुभचित्तं, आग्रह: ममत्वाभिनिवेशः, साराङ्ग-प्रधानकारणम्, अनुकम्पायाः दयायाः, प्रसूतिः प्रसवो, यस्य तत्तथा । यतेरप्यनुकम्पादानं समर्थयति -
“ज्ञापकं चात्र भगवान् निष्कान्तोऽपि द्विजन्मने ।
देवदूष्यं ददद्धीमाननुकम्पाविशेषतः" ।।५।।
न चैवमागमविरोधः, अवस्थौचित्ययोगेनेति विशेषणोपादानादविरोधात् । पठन्ति च लौकिका अपि'उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्यकार्यं स्यात् कर्मकार्यं च वर्जयेत्' ।। इति । एतावदेव स्पष्टयन्नाह -
“इत्थमाशयभेदेन, नाऽतोऽधिकरणं मतम् ।
अपि त्वन्यद्गुणस्थानम्, गुणान्तरनिबन्धनम्" ।।६।। आशयभेदो-अध्यवसायविशेषः, कथमयं वराकः कर्मकान्तारोत्तरणेन निखिलासुखविरहभाजनं