SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ૨૦૪ प्रतिभाशतs| Cोs : १५ આત્મરક્ષક દેવોનું અને બીજા ઘણા સૌધર્મકલ્પવાસી વૈમાનિકદેવ અને દેવીઓનું, અહીં બીજાઓ આ પ્રમાણે કહે છેઅને બીજા ઘણા આભિયોગિકપણે ઉત્પન્ન થયેલા આભિયોગિક, દેવ અને દેવીઓનું નેતૃત્વપણું, અગ્રેસરપણું, સ્વામીપણું, ભર્તુપણું પોષકપણું, મહત્તરપણું, આજ્ઞાથી ઈશ્વર સેનાપતિપણું કરાવતો, પળાવતો મોટાં નાટક-ગીત આદિ થાવત્ ભોગોને ભોગવતો વિહરે છે. એ પ્રમાણે જંબુદ્વીપપ્રજ્ઞપ્તિમાં કહેલું છે. टी : अत्र हि - द्वात्रिंशल्लक्षविमानप्रभुत्वमेव पठितं दृश्यते न पुनः ‘सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं' इत्यादिवत् 'बत्तीसाए विमाणवाससयसाहस्सीणं बत्तीसविमाणवाससयसहस्साहिवईणमित्यादि "अन्नेसिं बहूणं सोहम्मकप्पवासीणं वेमाणीयाणं देवाण य देवीण ये" त्यादि उक्तौ च “सव्वेसिं सोहम्मकप्पवासीण" मित्यादि । यत्रापि 'बहूणं' पठितं तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्ना एव ग्राह्या नान्ये, पाठांतरोक्तिस्वारस्यात्, सामान्यस्य विशेषपर्यवसानार्थमेवान्यमतोपन्यासात्, प्राच्यपक्षास्वरसकल्पने बीजाभावात् । तस्माद् यावानिन्द्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यत इति प्रतिपत्तव्यम् । तथा च स्वकीयविमानशब्देनैकस्यैव विमानस्य स्वस्वप्रभुत्वप्रतिबद्ध एकदेश एव ग्राह्यः, तावत एव प्रदेशस्य स्वविमानत्वेनोक्तेः । अत एव कालकनामकं भवनं चमरचंचाराजधान्येकदेशरूपमपि भवनत्वेनागमेऽभाणि । यथा च चंद्रसूर्यादीनां देवानामग्रमहिषीणां चंद्रसूर्यादिविमानैकदेश एव निजविमानतया भणितस्तथा तत्सामानिकानामपि द्रष्टव्यम्, अन्यथा ज्योतिष्केन्द्रसामानिकानामपि पृथक् विमानकल्पने ज्योतिष्काणां पञ्चप्रकारतानियमो भज्येत । अत एव 'ससिरविगहणक्खत्ता' इत्यादिप्रवचने शशिप्रमुखशब्दैः शशिप्रमुखविमानवासिनः सर्वेऽपि तत्तन्नामभिरेव गृहीता बोध्या: । किञ्च जिनजन्मादिषु सामानिकादीनां पालकविमानेनैवागमनमागमे भणितं न पुनः शेषदेवादीनामिव निजनिजविमानवाहनादिभिरित्येवमादि जंबूद्वीपवृत्तेर्जेयम् । या च केषाञ्चित् सामानिकानां महर्द्धिकत्वात् पृथग्विमानकल्पना, साप्यनल्पाज्ञानमूला, सहस्रारादिदेवलोकेषु सामानिकापेक्षया विमानानामल्पसंख्यात्वात् । तथाहि-सहस्रारे षट्सहस्राणि विमानानां, सामानिकास्तु त्रिंशत्सहस्राः । आनतप्राणतयोः समुदितयोः विमानानां चत्वारि शतानि, सामानिकास्तु विंशतिसहस्रा:, आरणाच्युतयोः समुदितयोविमानानां त्रीणि शतानि, सामानिकास्तु दशसहस्रा इति । तदुक्तं जंबूद्वीपप्रज्ञप्तौ (वक्ष० ५ सू० ११८) 'छस्सहस्सा सहस्सारे, आणयपाणयकप्पे चत्तारिसया, आरणच्चुए तिन्निसय त्ति । विमानसङ्ख्येयम् । चउरासीई असीइ बावत्तरि सत्तरी य सट्ठी य । पन्ना चत्तालीसा, तीसा वीसा दससहस्सा' ।। सामानिकसंख्येयम् ।
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy