________________
धर्भपरीक्षा लाग-२ | गाथा-3७
अयं भावः-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्यक्त्वानुकूलमेव, स्वल्पकालप्राप्तव्यफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रं, किन्तु स्वलक्षणज्ञानमेव, तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकं, विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छद्मस्थस्य प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति । अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणायेवोक्तं, तस्यैव मोक्षमार्गकारणत्वाद्, मोक्षमार्गो हि भावाज्ञा सम्यग्दर्शनादिरूपा, तत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा, तत्र भावाज्ञा मोक्षं प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति । तदिदमुक्तं व्यक्त्यैवाराधनापताकायां - अह दुक्कडगरहानलज्झामियकम्मिंधणो पुणो । सुकडाणुमोअणं तिव्वसुद्धपुलयंचियसरीरो ।। चउतीसबुद्धअइसअअट्ठमहापाडिहेरधम्मकहा । तित्थपवत्तणपभिई अणुमोएमि जिणिंदाणं ।। सिद्धत्तमणंताणं वरदंसणनाणसुक्खविरिआइ । इगतीसं सिद्धगुणे अणुमन्ने सव्वसिद्धाणं ।। पंचविहं आयारं देसकुलाई गुणे य छत्तीसं । सिस्सेसु अत्थभासणपमुहं सूरीण अणुमोए ।। अंगाणं उवंगाणं पइण्णसुअछेअमूलगंथाणं । उवज्झायाणं अज्झावणाइ सव्वं समणुमन्ने ।। समिईगुत्तीमहव्वयसंजमजइधम्मगुरुकुलणिवासं । उज्जुअविहारपमुहं अणुमोए समणसमणीणं ।। सामाइअपोसहाई अणुव्वयाइं जिणिदविहिपूयं । एक्कारपडिमप्पभिई अणुमन्ने सड्डसड्डीणं ।। जिणजम्माइसु ऊसवकरणं तह महरिसीणं पारणए । जिणसासणंमि भत्तीपमुहं देवाण अणुमन्ने ।। तिरियाण देसविरइं पज्जंताराहणं च अणुमोए । सम्मइंसणलंभं अणुमन्ने नारयाणंपि ।।