________________
धर्मपरीक्षा माग-२ | गाथा-४४
૧૩૯ सि यतो थी. जंठे थी, जोगवओ=योगवाणाने, असक्कपरिहारा-सशस्यपरिवारवाणी, हिंसा-हंसा, दुव्वारा दुवा छेपारवी शभ्य नथी. ॥४४॥ गाथार्थ :
તે=પૂર્વપક્ષી એવા વાદી, આ રીતે આગમમાં કહે છે એ રીતે, પ્રશ્ન કરવા યોગ્ય છે. કેવી રીતે તમારો આ નિયમ સિદ્ધ છે ? અર્થાત્ આ નિયમ સિદ્ધ થતો નથી. જે કારણથી યોગવાળાને मशऽयपरिहारवाजी हिंसा हुार छ=वारवी शऽय नथी. ||४||
* 'हंदि' पूर्वपक्षीना थनन। असहनमा छ. टी :
ते इय त्ति । ते एवं वादिनः पर्यनुयोज्याः प्रतिप्रष्टव्याः इत्यमुनाप्रकारेण यदुत एष नियमो 'यस्य योगात्कदाचिदपि जीववधो भवति स न केवली' इत्येवंलक्षणः कथं भे=भवतां, सिद्धः ? यद-यस्मात् कारणाद् योगवतः प्राणिन आत्रयोदशगुणस्थानं अशक्यपरिहारा हिंसा दुर्वारा, योगनिरोधं विना तस्याः परिहर्तुमशक्यत्वात्, तदीययोगनिमित्तकहिंसानुकूलहिंस्यकर्मविपाकप्रयुक्ता हि हिंसा तदीययोगाद् भवन्ती केन वार्यतामिति । अथैवं सर्वेषामपि हिंसाऽशक्यपरिहारा स्यादिति चेत् ? न, अनाभोगप्रमादादिकारणघटितसामग्रीजन्यायास्तस्या आभोगाप्रमत्ततादिना कारणविघटनेन शक्यपरिहारत्वाद्, योगमात्रजन्यायास्त्वनिरुद्धयोगस्याशक्यपरिहारत्वादिति विभावनीयम् ।
नन्वीदृश्यां जीवविराधनायां जायमानायां केवलिना जीवरक्षाप्रयत्नः क्रियते न वा ? आद्ये न क्रियते चेत् ? तदाऽसंयतत्वापत्तिः, क्रियते चेत्, तदा चिकीर्षितजीवरक्षणाभावात्प्रयत्नवैफल्यापत्तिः, सा च केवलिनो न संभवति, तत्कारणस्य वीर्यान्तरायस्य क्षीणत्वाद्, अत एव देशनाविषयकप्रयत्नविफलतायां केवलिनः केवलित्वं न संभवतीति परेषां सम्यक्त्वाद्यलाभे धर्मदेशनामप्यसौ न करोतीत्यभ्युपगम्यते । तदुक्तमावश्यकनियुक्तौ -
“सव्वं च देसविरई सम्मं घेच्छति य होइ कहणाउ । इहरा अमूढलक्खो ण कहेइ भविस्सइ ण तं च ।।५६४।।" ततः क्षीणवीर्यान्तरायत्वादशक्यपरिहारापि जीवविराधना केवलिनो न संभवतीति चेत् ?
न, यथा हि भगवतः सामान्यतः सर्वजीवहितोद्देशविषयोऽपि वाक्प्रयत्नः स्वल्पसंसारिष्वेव सफलो भवति, न तु बहुलसंसारिषु, प्रत्युत तेषु कर्णशूलायते । यत उक्तं सिद्धसेनदिवाकरैः - "सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ।।" (द्वा. २-१३) इति ।