________________
૧૨૦
धर्मपरीक्षा लाग-२ | गाथा-४० दर्शेषु पाठो दृश्यते । “विपरीतप्ररूपणादहिताचरणादेव 'निह्नवोऽयं' इति लोक्मध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवान् ।" इत्ययमपि क्वचिदादर्श पाठो दृश्यते । क्वचिच्च - “तथामिथ्यात्वाभिनिवेशादसौ भगवद्वचनं 'क्रियमाणं कृतं' इत्यश्रद्दधानः ‘कृतमेव कृतं' इति विपरीतप्ररूपणलक्षणादहिताचरणादेव 'निह्नवोऽयं' इति लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं भवं चानन्तं निर्वर्तितवान् । उक्तं च प्रज्ञप्तौ 'जइ णं भंते! जमाली अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी, कम्हा णं भंते! जमाली अणगारे कालमासे कालं किच्चा लंतए कप्पे तेरससागरोवमठिंइएसु देवकिब्बिसिएसु देवेसु देवकिब्बिसियत्ताए उववन्ने ? गोयमा! जमाली णं अणगारे आयरियपडिणीए इत्यादि यावत् लंतए कप्पे जाव उववन्ने । जमाली णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव कहिं उववज्जिहिति ? गोयमा! चत्तारि पंच तिरिक्खजोणिय-मणुस्सदेवभवग्गहणाई संसारमणुपरिअट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति ।" इत्येवंभूतः पाठोऽस्ति । ___ हेयोपादेयवृत्तावपि केषुचिदादशेष्वयमेव पाठोऽस्ति । आदर्शान्तरे च - "अतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं निर्वर्तितवानिति, उक्तं च प्रज्ञप्तौ 'जइ णं भंते० ।” इत्यादिरचनया पाठोऽस्ति ।
एवं स्थिते सति मध्यस्था गीतार्था इत्थं प्रतिपादयन्ति यदुत - भगवत्यादिबहुग्रन्थानुसारेण परिमितभवत्वं जमालेञ्जयते, सिद्धर्षीयवृत्तिपाठविशेषाद्यनुसारेण चानन्तभवत्वमिति तत्त्वं तु तत्त्वविद्वेद्यम् इति । परं भगवतीसूत्रं प्रकृतार्थे न विवृतमस्ति, तत्सांमुख्यं च वीरचरित्रादिग्रन्थेतेषु (थेषु) दृश्यते, संमतिप्रदर्शनं त्वर्थद्वयाभिधानप्रक्रमेऽप्येकार्थापुरस्कारेणापि संभवति, यथा__ “नानाकारं कायेन्द्रियं, असंख्येयभेदत्वात्, अस्य चान्तर्बहिर्भेदो निर्वृतेर्न कश्चित्प्रायः, प्रदीर्घत्र्यस्रसंस्थितं कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियं, अतिमुक्तकपुष्पदलचन्द्रकाकारं किंचित्सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियं, किंचित्समुन्नतमध्यपरिमण्डलाकारं धान्यमसूरवच्चक्षुरिन्द्रियं, पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयं, तत्राद्यं स्वकायपरिमाणं द्रव्यमनश्च, शेषाण्यङ्गुलासंख्येयभागप्रमाणानि सर्वजीवानाम् । तथा चागमः (प्रज्ञापना) फासिंदिए णं भंते ! किं संठिए पण्णत्ते ? गोयमा! णाणासंठाणसंठिए । जिझिदिए णं भंते! किं संठिए पण्णत्ते ? गोयमा ! खुरप्पसंठिए । घाणिदिए णं भंते! किंसंठिए पण्णत्ते ? गोयमा! अतिमुत्तयचंदगसंठिए पण्णत्ते । चक्खुरिंदिए णं भंते किं संठिए पण्णत्ते ? गोयमा! मसुरयचंदसंठिए । सोइंदिए णं भंते! किंसंठिए पण्णत्ते ? गोयमा! कलंबुआपुप्फसंठिए पण्णत्ते ।" इति तत्त्वार्थवृत्तौ (२-१७)।
अत्र हीन्द्रियसंस्थानं तत्परिमाणं चेति द्वयमुपक्रान्तं, संमतिप्रदर्शनं तु पूर्वार्थ एव, इत्येवं, 'सिद्धर्षीयवृत्त्यादर्शविशेषेऽपि जमालेरनन्तभवस्वामित्वप्रदर्शनं चतुरन्तसंसारकान्तारदृष्टान्तत्वप्रदर्शनसदृशं, सूत्रसंमतिस्तु देवकिल्बिषिकत्वांश एव' इत्ययमर्थो न्याय्योऽन्यो वा तत्र कश्चित्सुन्दरोऽभिप्रायः इति यथा बहुश्रुताः प्रतिपादयन्ति तथा प्रमाणीकर्त्तव्यं न तु कुविकल्पचक्रेण ग्रन्थकदर्थना कर्त्तव्या ।