________________
धर्मपरीक्षा लाग-२ / गाथा-४०
અનુપપત્તિ જ અહીં=જમાલિના અનંતભવ સ્વીકારવામાં, પ્રમાણ છે, એમ ન કહેવું; કેમ કે આસન્નતાદૂરતાનું આપેક્ષિકપણું છે.
વળી, ‘દૂરાત્’ શબ્દથી જમાલિના અનંતભવની સંગતિ કરવી યુક્ત નથી. તેની પુષ્ટિ કરવા 'किञ्च' थी हे छे.
-
૧૧૯
વળી, ‘દૂર’ પદ વગર પણ આવા પ્રકારનો અર્થ=ઉપદેશમાલાકણિકામાં કહ્યું એવા પ્રકારનો અર્થ અન્યત્ર=અન્ય ગ્રંથોમાં દેખાય છે. તે સર્વાનંદસૂરિ વિરચિત ઉપદેશમાલાની વૃત્તિમાં કહેવાયું છે “તિર્યંચગતિમાં કેટલાક ભવો અતિવહન કરીને અને દેવોમાં કેટલાક ભવો અતિવહન કરીને ઉપચિત, સંચિત કર્મને વશ એવો જમાલિ ત્યાર પછી સુકૃત જન્મગૃહ જેવા મહાવિદેહમાં જન્મને પામીને સુખની એક ખાણરૂપ મોક્ષને पामशे."
'इति' शब्द उद्धरागनी समाप्ति अर्थे छे.
टीडा :
यत्तु – जमालेः साक्षात्तीर्थकरदूषकस्यापि पञ्चदश भवाः सुबाहुकुमारस्य च जिनाज्ञाराधकस्यापि षोडश भवाः इति जिनाज्ञाराधनापेक्षया तद्विराधनमेव सम्यग् - इति परस्याभिधानं तदविवेकमूलं, एवं हि दृढप्रहारिप्रभृतीनां घोरपापकारिणां तद्भवमुक्तिगामित्वं, आनन्दादीनां च देवमनुजभवप्राप्तिक्रमेणेति सुकृतापेक्षया दुष्कृतमेव सम्यगिति वदतोऽपि मुखं कः पिदध्यादिति । यदपि - साधुभक्तस्य द्रव्यतस्तीर्थकृतोऽपि मरीचे: कापिलीयदर्शनप्रवृत्तिहेतुसन्दिग्धोत्सूत्रभाषणनिमित्तदुर्वचनमात्रेणाप्येकेन्द्रियादिष्वसंख्येयभवभ्रमणं, जमालेश्च साक्षात्तीर्थकरदूषकस्यापि पञ्चदशभवा इति महदसमञ्जसं - इति परेणोद्धुष्यते तदपि तथाभव्यताविशेषादेव न पर्यनुयोगार्हं, अन्यथा सन्दिग्धोत्सूत्रभाषिणोऽपि मरीचेर्नरकभवदुःखप्राप्तिः, निश्चितोत्सूत्रभाषिणश्च जमालेर्नेयमित्यत्र भवतोऽपि किमुत्तरं वाच्यम् ? इति रागद्वेषरहितेन चेतसा चिन्तनीयम् ।
-
-
दोघट्टसंज्ञकायां वृत्तौ तु 'ततश्च्युतश्चत्वारि पंच तिर्यग्मनुष्यदेवभवग्रहणानि संसारमनुपर्यट्य महाविदेहे सेत्स्यति' इति शब्दसंदर्भेण भगवतीसूत्रालापकानुवाद्येव दृश्यते ।
सिद्धर्षीयोपदेशमालाटीकायास्त्वादर्शभेदात् पाठभेदा दृश्यते, तथाहि
""
“ आजीवन्ति द्रव्यलिङ्गेन लोकमित्याजीवका निह्नवास्तेषां गणो गच्छस्तस्य नेता नायको गुरुरित्यर्थः, राज्यश्रियं प्रहाय=परित्यज्य प्रव्रज्यां गृहीत्वा 'च' शब्दादागमं चाधीत्य जमालिर्भगवज्जामाता हितमात्मनोऽकरिष्यद् 'यदि' इत्यध्याहारस्ततो न नैव वचनीये निन्द्यत्वे इह लोके प्रवचने वाऽपतिष्यत् । तथाहि मिथ्यात्वाभिनिवेशादसौ भगवद्वचनं 'क्रियमाणं कृतं' इत्यश्रद्दधानः 'कृतमेव कृतं' इति विपरीतप्ररूपणालक्षणादहिताचरणादेव लोकमध्ये वचनीये पतितोऽतिदुष्करतपोविधानेऽपि किल्बिषदेवत्वं भवं चानन्तं निर्वर्तितवान् ।” इत्ययं केषुचिदा