SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ૧૦૪ धर्मपरीक्षा माग-२/गाथा-४० અનંતભવ ગ્રહણ થાય છે” તેમ સ્વીકારવાની પૂર્વપક્ષીને આપત્તિ આવે. વસ્તુતઃ અનંત ભવભ્રમણ કરનારા બધા ઉત્સુત્રભાષીના ભવો સમાન જ થતા નથી. માટે ત્રિષષ્ટિના સૂત્રનો જે પ્રકારે પૂર્વપક્ષી અર્થ કરે છે તે પ્રકારે અર્થ કરવો ઉચિત નથી, તે પ્રકારનો ગ્રંથકારશ્રીનો આશય છે. टीजन: अथ अस्त्वन्यत्र यथा तथा, भगवत्यपेक्षया तु (९-३३) जमालेरनन्ता एव भवा लभ्यन्ते, यतो 'यावत्' शब्दः सामान्यसूत्रेऽस्ति, तस्य च प्रयोगः क्वचिद्विशेष्यत्वेन क्वचिच्च विशेषणत्वेन स्यात्, तत्र विशेष्यत्वेन प्रयुक्तो यावत्' शब्द उक्तगणसंबन्धिभ्यामाद्यन्तपदाभ्यां विशिष्टः सन्नेव गणमध्यवर्तिनां पदार्थानां सङ्ग्राहको भवति, यथा - 'जमाली णं भंते! अणगारे अरसाहारे विरसाहारे अंताहारे लूहाहारे तुच्छाहारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी ? हंता गोयमा ।' इत्यादि सामान्यसूत्रोक्तस्य गणस्याद्यन्तशब्दाभ्यां विशिष्टो 'गोअमा! जमाली णं अणगारे अरसाहारे जाव विवित्तजीवी' इति सूत्रोक्तवाक्यगतो यावच्छब्दः तस्य च सर्वादित्वेन बुद्धिस्थवाचकत्वान्मध्यवर्तिनामपि पदार्थानां नानारूपाणां नानासंख्याकानां च सङ्ग्राहकत्वं, एवमाद्यन्तशब्दयोरपि गणानुरोधेन भिन्नत्वमेव बोध्यं न पुनर्यावच्छब्दोऽपि घटपदादिवन्नियतपदार्थवाचक इति । विशेषणभूतस्तु यावच्छब्द उक्तपदवाच्यानामर्थानां देशकालादिनियामको भवति, तत्र देशनियामकत्वं यावत्पञ्चविंशतियोजनानि पत्तनं तावद् गन्तव्यं' इत्यादौ, कालनियामकत्वं च 'जाव णं से जीवे सया समिअं तं तं भावं परिणमइ ताव च णं से जीवे आरभइ सारभइ समारभइ' इत्यादौ प्रसिद्धम् । विशेषणत्वविशेष्यत्वस्वरूपविकलस्तु यावच्छब्दो डित्थडवित्थादिवदर्थशून्य एव स्यात् । तदिह यावच्छब्दो नानर्थको न वा विशेष्यभूतः, आद्यन्तशब्दाभ्यामविशिष्टत्वात्, विशेष्यभूतस्य च तस्य त्वाभ्यां विशिष्टस्यैव प्रयोगात्, किन्तु विशेषणभूतः, 'प्राक्पतितं विशेषणं' इति वचनात्, स चात्राधिकारात् कालनियामक इति । ‘यावत्कालं चतुष्पञ्चसु त्रसस्थावरजातिषु नारकतिर्यग्योनिकमनुजदेवानां भवग्रहणानि, यत्तदोर्नित्याभिसंबन्धात् तावत्कालं संसारमनुपरावृत्त्य ततः पश्चात्सेत्स्यन्ति, यावत्सर्वदुःखानामन्तं करिष्यन्ति' इति सामान्यसूत्रार्थः पर्यवस्यति । एवं सामान्यसूत्रोक्तानुसारेण विशेषसूत्रेऽपि कालनियमार्थं तावच्छब्दवद् यावच्छब्दोऽप्यध्याहार्यः, तावन्तरेण वाक्यद्वयानुपपत्त्या कालनियमानुपपत्तिरिति व्यक्तैव सामान्यसूत्रादिव विशेषसूत्रादप्यनन्तभवसिद्धिरिति चेत् ? तदिदमसिद्धमसिद्धेन साधयतो महातार्किकत्वमायुष्मतः, यतो 'जाव चत्तारि' इत्यादावपि शसन्तचतुष्पञ्चपदसमानाधिकरणभवग्रहणपदोत्तरद्वितीयाविभक्तरेव 'कालाध्वनोाप्तौ' (सिद्धहेम० २
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy