________________
धर्मपरीक्षा भाग -२ / गाथा- ४०
૮૮
દોષ નથી. એમ જે પૂર્વપક્ષી કહે છે તે અસત્ છે; કેમ કે ત્યાં=ઉપદેશપદમાં, મનુષ્યગતિના દૌર્લભ્યનો અધિકાર હોવાથી અરઘટ્ટઘટીયંત્રન્યાય સામાન્યનું એકેન્દ્રિય આદિ જાતિમાત્રથી વિશેષ વિવક્ષા હોવા છતાં પણ અહીં=ઉત્સૂત્રભાષણમાં, સર્વજ્ઞમત વિકોપકનું=સર્વજ્ઞમતથી વિરુદ્ધ બોલનારનું, ૮૪ લાખ જીવાયોનિથી સંકુલ એવા સંસારપરિભ્રમણનો અધિકાર હોવાથી ફરી ફરી ગતિચતુષ્ટય ભ્રમણના આશ્રિત જ અરઘટ્ટઘટીયંત્રન્યાયનું વિવક્ષિતપણું છે.
टीडा :
अत एव 'श्रुतविराधनातश्चातुर्गतिकसंसारपरिभ्रमणं भवति' इति स्फुटमेवान्यत्राभिहितं, जमालिदृष्टान्तश्च तत्रोपन्यस्त इति ।
तथाहि – “इच्चेइयं दुवालसंगं गणिपिडगं तीते काले अणंता जीवा आणाए विराहेत्ता चातुरंतसंसारकंतारं अणुपरि अट्टिंसु १ । इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पन्ने काले परित्ता जीवा आणाए विराहित्ता चातुरंतसंसारकंतारं अति २ । इच्चेयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अणु-परिअट्टिस्संति त्ति ।।" नन्दिसूत्रे ।
एतद्वृत्तिर्मलयगिरिकृता, यथा - 'इच्चेइयमित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकमतीतकालेऽनन्ता जीवा आज्ञया यथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तसंसारकान्तारं विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं अणुपरि अहिंसुत्ति अनुपरावृत्तवन्त आसन् । इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाज्ञा ‘आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञे तिव्युत्पत्तेः, ततः साऽऽज्ञा च त्रिधा, तद्यथा - सूत्राज्ञा, अर्थाज्ञा, तदुभयाज्ञा च । संप्रत्यमूषामाज्ञानां विराधनाश्चिन्त्यन्ते । तत्र यदाऽभिनिवेशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनाम् । यदात्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामिवावसातव्या । यदा पुनरभिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदोभयाज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेयेति । "
तथा
66
' आज्ञया सूत्राज्ञयाऽभिनिवेशतोऽन्यथापाठादिलक्षणया विराधनया विराध्यातीते कालेऽनन्ता जीवाश्चतुरन्तं संसारकान्तारं नरकतिर्यग्नरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः अनुपरावृत्तवन्त आसन् जमालिवद् । अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया विराधनया गोष्ठामाहिलवत् । (उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादिलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवद् 1 ) " इति तु हारिभद्र्यामेतद्वृत्तावुक्तमिति । तस्मादुपलक्षणव्याख्यान एव यथोक्तदृष्टान्तोपपत्तिरिति स्मर्त्तव्यम् ।
-