________________
धर्मपरीक्षा भाग-१ | गाथा-८
सम्मद्दिट्ठी जीवो उवइटुं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अणाभोगा गुरुणिओगा वा ।। इति ।। तद्वारणाय स्वरसवाहीति, सम्यग्वक्तृवचनाऽनिवर्त्तनीयत्वं तदर्थः, अनाभोगादिजनितं मुग्धश्राद्धादीनां वितथश्रद्धानं तु सम्यग्वक्तृवचननिवर्त्तनीयमिति न दोषस्तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य वस्तुतः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं विदुषोऽपीति शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थः, सिद्धसेनादयश्च स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यबाधं प्रतिसन्धायापि पक्षपातेन न प्रतिपत्रवन्तः, किन्त्वविच्छिन्नप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न तेऽभिनिवेशिनः, गोष्ठामाहिलादयस्तु शास्त्रतात्पर्यबाधं प्रतिसन्धायैवान्यथा श्रद्धते इति न दोषः ३।।
भगवद्वचनप्रामाण्यसंशयप्रयुक्तः शास्त्रार्थसंशयः सांशयिकम्, यथा 'सर्वाणि दर्शनानि प्रमाणं कानिचिद्वा', 'इदं भगवद्वचनं प्रमाणं न वा' इत्यादि संशयानानाम्, मिथ्यात्वप्रदेशोदयनिष्पन्नानां साधूनामपि सूक्ष्मार्थसंशयानां मिथ्यात्वभावो मा प्रासाङ्क्षीदिति भगवद्वचनप्रामाण्यसंशयप्रयुक्तत्वं विशेषणम्, ते च नैवंभूताः, किन्तु भगवद्वचनप्रामाण्यज्ञाननिवर्त्तनीयाः, सूक्ष्मार्थादिसंशये सति 'तमेव सच्चं णीसंकं जं जिणेहिं पवेइयं' (श्रा० प्र० ५९) इत्याद्यागमोदितभगवद्वचनप्रामाण्यपुरस्कारेण तदुद्धारस्यैव साध्वाचारत्वात्, या तु शङ्का साधूनामपि स्वरसवाहितया न निवर्त्तते सा सांशयिकमिथ्यात्वरूपा सत्यनाचारापादिकैव, अत एव काङ्क्षामोहोदयादाकर्षप्रसिद्धिः ४।।
साक्षात्परम्परया च तत्त्वाऽप्रतिपत्तिरनाभोगम, यथैकेन्द्रियादीनां तत्त्वातत्त्वानध्यवसायवतां मुग्धलोकानां च, यद्यपि माषतुषादिकल्पानां साधूनामपि साक्षात्तत्त्वाऽप्रतिपत्तिरस्ति, तथापि तेषां गीतार्थनिश्रितत्वात्तद्गततत्त्वप्रतिपत्तिः परंपरया तेष्वपि सत्त्वान्न तत्रातिव्याप्तिः, तत्त्वाप्रतिपत्तिश्चात्र संशयनिश्चयसाधारणतत्त्वज्ञानसामान्याभाव इति न सांशयिकेऽतिव्याप्तिरिति दिक् ५।। टीमार्थ :
तस्यानन्तसंसार ..... व्याप्तिरिति दिक् । 'तम्मूलंति' प्रती छे. ते नंत संसारना हेतु सेवा અશુભ અનુબંધનું, કારણ મિથ્યાત્વ છે.
અહીં પ્રશ્ન થાય કે ઉત્કટ હિંસાદિ દોષોથી પણ અનંતસંસાર થાય છે. તેથી અનંતસંસારનું હેતુ માત્ર મિથ્યાત્વ છે તેમ કેમ કહી શકાય ? તેના નિવારણ માટે હેતુ કહે છે –
ઉત્કટ હિંસાદિ દોષોનું પણ મિથ્યાત્વ સહકૃત એવા તેઓનું જ અશુભ અનુબંધમાં હેતુપણું છે. અન્યથા–મિથ્યાત્વ સહકૃત ન હોય તો, હિંસાદિ દોષમાં વ્યામૂઢતાની અનુપપત્તિ છે. તે મિથ્યાત્વ,