________________
પ૮
धर्भपरीक्षा माग-१/गाथा-८
विपर्यासात्मकं, (२) जीवादयस्तत्त्वमिति निश्चयाभावरूपानधिगमात्मकं च । तदाह वाचकमुख्यः() 'अनधिगमविपर्ययौ च मिथ्यात्वं' इति, तथापि 'धर्मेऽधर्मसंज्ञा' इत्येवमादयो दश भेदा इवोपाधिभेदात्पञ्चैते भेदाः शास्त्रप्रसिद्धाः ।
तत्राभिग्रहिकं-अनाकलिततत्त्वस्याप्रज्ञापनीयताप्रयोजकस्वस्वाभ्युपगतार्थश्रद्धानम्, यथा बौद्धसाङ्ख्यादीनां स्वस्वदर्शनप्रक्रियावादिनाम्, यद्यपि वैतण्डिको न किमपि दर्शनमभ्युपगच्छति तथाऽपि तस्य स्वाभ्युपगतवितण्डावादार्थमेव निबिडाग्रहवत्त्वादाभिग्रहिकत्वमिति नाव्याप्तिः, 'अनाकलिततत्त्वस्य' इति विशेषणाद् यो जैन एव धर्मवादेन परीक्षापूर्वं तत्त्वमाकलय्य स्वाभ्युपगतार्थं श्रद्धत्ते तत्र नातिव्याप्तिः, यस्तु नाम्ना जैनोऽपि स्वकुलाचारेणैवागमपरीक्षां बाधते तस्याभिग्रहिकत्वमेव, सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात् तदुक्तं हरिभद्रसूरिभिः (लोकतत्त्वनिर्णय १३२) - पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ।। इति । यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलिततत्त्व एव स्वाभिमतार्थं जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं नाऽप्रज्ञापनीयताप्रयोजकं, असद्ग्रहशक्त्यभावात् किन्तु गुणवदाज्ञाप्रामाण्यमूलत्वेन गुणवत्पारतन्त्र्यप्रयोजकमित्यप्रज्ञापनीयताप्रयोजकत्वविशेषणान्न तत्रातिव्याप्तिः १।।
स्वपराभ्युपगतार्थयोरविशेषेण श्रद्धानमनाभिग्रहिकम् । यथा सर्वाणि दर्शनानि शोभनानि इति प्रतिज्ञावतां मुग्धलोकानाम् । यद्यपि परमोपेक्षावतां निश्चयपरिकर्मितमतीनां सम्यग्दृष्टीनां स्वस्वस्थाने सर्वनयश्रद्धानमस्ति, शिष्यमतिविस्फारणरूपकारणं विनैकतरनयार्थनिर्धारणस्याऽशास्त्रार्थत्वात् । तदाह सम्मतौ सिद्धसेनःणिययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण न दिठ्ठसमयो विभयह सच्चेव अलिए वा ।। तथाऽपि स्वस्वस्थानविनियोगलक्षणेन विशेषेण तेषां सर्वनयश्रद्धानमस्तीति नातिव्याप्तिः २।। विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानमाभिनिवेशिकम्, स्वस्वशास्त्रबाधितार्थश्रद्धानं विपर्यस्तशाक्यादेरपीति तत्रातिव्याप्तिवारणाय भगवत्प्रणीतत्वं शास्त्रविशेषणम्, भगवत्प्रणीतशास्त्रे बाधितार्थश्रद्धानमिति सप्तमीगर्भसमासानातिव्याप्तितादवस्थ्यम्, तथाप्यनाभोगात्प्रज्ञापकदोषाद्वा वितथश्रद्धानवति सम्यग्दृष्टावतिव्याप्तिः, अनाभोगाद् गुरुनियोगाद्वा सम्यग्दृष्टेरपि वितथश्रद्धानभणनात् । तथा चोक्तमुत्तराध्ययननिर्युक्तौ (१६३) -