________________
धर्मपरीक्षा भाग-१ | गाथा-७
४० वा अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूअणिज्जेसु तहा माईसु वा पिईसु वा बन्धूसु वा मित्तेसु वा उवयारिसु वा आहेण वा जीवेसु मग्गट्ठिएसु वा अमग्गट्ठिएसु वा मग्गसाहणेसु वा अमग्गसाहणेसु वा जं किंचि वितहमायरिअं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुबंधि सुहुमं वा बायरं वा मणेणं वा वायाए वा काएणं वा कयं वा काराविअंवा अणुमोइअं वा रागेण वा दोसेण वा मोहेण वा इत्थं व जम्मे जम्मन्तरेसु वा गरहियमेयं दुक्कडमेयं उज्झियव्वमेअं वियाणि मए कल्लाणमित्तगुरुभगवंतवयणाओ एवमेअंति रोइअं सद्धाए अरहंतसिद्धसमक्खं गरहामि अहमिणं दुक्कडमेअं उज्झियव्वमेअं इत्थ मिच्छामि दुक्कडं ३।।'
एतद्व्याख्या यथा-चतुःशरणगमनानन्तरं दुष्कृतगर्होक्ता, तामाह - शरणमुपगतश्च सन् एतेषां अर्हदादीनां, गहें दुष्कृतं किं विशिष्टं? इत्याह-जण्णं अरहंतेसु वा इत्यादि अर्हदादिविषयं, ओधेन वा जीवेषु मार्गस्थितेषु सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु एतद्विपरीतेषु, मार्गसाधनेषु-पुस्तकादिषु, अमार्गसाधनेषु-खड्गादिषु, यत्किंचिद्वितथमाचरितं अविधिपरिभोगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा, पापं पापकारणत्वेन, पापानुबन्धि तथाविपाकभावेन, गर्हितमेतद् कुत्साऽऽस्पदं, दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद् एवमेतद् इति रोचितं श्रद्धया तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गहें कथं? इत्याह-दुष्कृतमेतद् उज्झितव्यमेतद् । अत्र व्यतिकरे 'मिच्छामि दुक्कडं' वारत्रयं पाठः ।
अथ-हिंसादिकस्य पापस्य पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्यात्, न तूत्सूत्रभाषणजनितस्य, उत्सूत्रभाषिणो निह्नवस्य क्रियाबलाद्देवकिल्बिषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन दुर्लभबोधित्वभणनाद् । यदागमः (दशवै० ५/२/४७-४८)
लभ्रूण वि देवत्तं उववन्नो देवकिब्बिसे । . तत्थ वि से न याणाइ किं मे किच्चा इमं फलं ।। तत्तो विसे चइता णं लब्भि ही एलमूअगं । णरगं तिरिक्खजोणिं वा बोही जत्थ सुदुल्लहा ।।
एतवृत्तिर्यथा-'लभ्रूण वित्ति, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषनिकाये, तत्राप्यसौ न जानाति विशुद्धावध्यभावात्, किं मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति । अस्य दोषान्तरमाह तत्तो वित्ति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एडमूकतां अजभवानुकारिमनुष्यत्वं तथा नरकं तिर्यग्योनिं वा पारम्पर्येण लप्स्यते । बोधिर्यत्र सुदुर्लभा सकलसम्पत्तिनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह ‘प्राप्नोत्येडमूकताम्' इति वाच्ये असकृद्भवप्राप्तिख्यापनार्थं 'लप्स्यते' इति भविष्यत्कालनिर्देशः' इति चेत्? मैवम्, न हि तत्र निह्नव एवाधिकृतः किन्तु तपःस्तेनादिः 'तवतेणे वयतेणे' (दशवै०५-२-४९) इत्यादिपूर्वगाथैकवाक्यत्वात् तस्याप्युत्कृष्टफलप्रदर्शनमेतत्, न तु सर्वत्र सादृश्यनियमः, अध्यवसायवैचित्र्यात् । किंचैवं-'इय से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ' इत्याचाराङ्गवचनात्