SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४८ धर्मपरीक्षा माग-१| गाथा-७ અનંતસંસારનું કારણ હોવા છતાં અલ્પ-અલ્પતર સંસારનું કારણ બને છે; કેમ કે સમ્યક્તને અભિમુખ પરિણામ હોવાથી વિશુદ્ધ અધ્યવસાય હોવાને કારણે અનંતાનુબંધી કષાયની અનુબંધ શક્તિ ઘટે છે. સમ્યક્તની પ્રાપ્તિ પછી અનંતાનુબંધી કષાય નહીં હોવાથી અનંતસંસારનું અર્જન નથી, છતાં સમ્યક્તથી પાત પામીને ફરી અનંતાનુબંધી કષાયને કારણે અનંતસંસારનું અર્જન થાય છે. टी : अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे वाऽऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदान्नानन्तसंसारिता, केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तनिःशेषतां यावत्प्रायश्चित्तप्रतिपत्तिरेव न स्याद्, अध्यवसायविशेषाद् नियतोपक्रमणीयस्वभावकर्मबन्धे चेह जन्मनि जन्मान्तरे वा प्रायश्चित्तप्रतिपत्तिः स्यात्, अत एव जमालिशिष्यादीनां भगवत्समीपमुपगतानां तद्भव एवोत्सूत्रभाषणप्रायश्चित्तप्रतिपत्तिः । कालीप्रभृतीनां च तस्स ठाणस्स अणालोइअ अपडिक्कंता कालमासे कालं किच्चा०' इत्यादि वचनात्, तद्भावानालोचितपार्श्वस्थत्वादिनिमित्तपापानां भवान्तर एव प्रायश्चित्तप्रतिपत्तिः । ‘काली णं भंते । देवी ताओ देवलोगाओ अणंतरं उव्वट्टित्ता कहिं गच्छिहिति? कहिं उववज्जिहिति? गोयमा । महाविदेहवासे सिज्झिहिति' (२.१.१-) इत्यादिवचनात्तासां भवान्तर एव पूर्वभवाचीर्णपार्श्वस्थत्वादिजातपापकर्मप्रायश्चित्तभणनात् । 'सव्वा वि हु पव्वज्जा पायच्छित्तं भवंतरकडाणं पावाणं कम्माणं ।' () इत्यादिपूर्वाचार्यवचनात्प्रव्रज्याया एव भवान्तरकृतकर्मप्रायश्चित्तरूपत्वाद् । एतेन 'कृतस्य पापस्य प्रायश्चित्तप्रतिपत्तिस्तस्मिन्नेव भवे भवति न पुनः जन्मान्तरेऽपि इति वदंस्तत्र 'जावाउ सावसेसं०" (उपदेशमाला२५८) इत्यादि सम्मतिमुद्भावयन् व्यक्तामसंलग्नकतामनवगच्छनिरस्तो बोध्यः । ___ अथ पूर्वभवकृतपापपरिज्ञानाऽभावात्कुतस्तदालोचनम् ? कुतस्तरां च तत्प्रायश्चित्तम् ? इति चेत्? न, एतद्भवकृतानामपि विस्मृतानामिव पूर्वभवकृतानामपि पापानां सामान्यज्ञानेनालोचनप्रायश्चित्तसम्भवात् । अत एव मिथ्यात्वहिंसादेः पारभविकस्यापि निन्दागर्हादिकम् - इहभवियमन्नभवियं मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं ।। (चतु० प्रकी० ५०) 'इह भवे अन्नेसु वा भवग्गहणेसु पाणाइवाओ कओ वा काराविओ वा कीरंतो वा परेहिं समणुण्णाओ तं निंदामि गरिहामि' इत्यादि चतुःशरणप्रकीर्णकपाक्षिकसूत्रादावुक्तम् ।। पापप्रतिघातगुणबीजाधानसूत्रे (त्रवृत्तौ) हरिभद्रसूरिभिरप्येतद्भवसम्बन्धि भवान्तरसम्बन्धि वा पापं यत्तत्पदाभ्यां परामृश्य मिथ्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । तथाहि-'सरणमुवगओ अ एएसि गरिहामि दुक्कडं । जण्णं अरहंतेसु वा सिद्धेसु वा आयरिएसु वा उवज्झाएसु वा साहूसु वा साहुणीसु
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy