SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग - १ / गाथा પૂર્વપક્ષ અનુમાન કરે છે કે વિપરીત માર્ગમાં રહેલા અને વિપરીત માર્ગ સ્વીકારનારા અનંતસંસારી છે; કેમ કે નિયત ઉત્સૂત્રભાષી છે. આ કથનમાં ગ્રંથકા૨શ્રી કહે છે કે નિયત ઉત્સૂત્રભાષિત્વરૂપ હેતુ અનંતસંસારનો પ્રયોજક નથી; કેમ કે અનંતસંસારની પ્રાપ્તિ, તેને અનુરૂપ ક્લિષ્ટ અધ્યવસાયવિશેષથી જ થાય છે. પરંતુ નિયત ઉત્સૂત્રભાષણથી થતી નથી. 39 टीडा : किं तर्हि अनन्तसंसारतायामनुगतं नियामकमित्याह - तस्याः - संसारानन्ततायाः कारणं भिन्न एवानुगतोऽध्यवसायस्तीव्रत्वसंज्ञितः केवलिना निश्चीयमानोऽस्तीति गम्यम् । यस्य संग्रहादेशात् स्वातंत्र्येणैव तस्यामनुगतं हेतुत्वम्, व्यवहारादेशाच्च क्रियाविशेषे सहकारित्वं घटकत्वं वा, शब्दमात्रानुगततीव्राध्यवसायसहकृतायास्तत्पूर्विकाया वा पापक्रियाया अनन्तसंसारहेतुत्वव्यवहारात् स च तीव्राध्यवसाय आभोगवतामनाभोगवतां वा शासनमालिन्यनिमित्तप्रवृत्तिमतां रौद्रानुबन्धानां स्याद्, अनाभोगेनापि शासनमालिन्यप्रवृत्तौ महामिथ्यात्वार्जनोपदेशात् । तदुक्तमष्टकप्रकरणे (२३-१-२) यः शासनस्य मालिन्येऽनाभोगेनापि वर्त्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम् ।। बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थनिबन्धनम् ।। शासनमालिन्यनिमित्तप्रवृत्तिश्च निह्नवानामिव यथाछन्दादीनामप्यविशिष्टेति कोऽयं पक्षपातः ? यदुत निह्नवानामनन्तसंसारनियम एव, यथाछन्दादीनां त्वनियम इति, अनाभोगेनापि विषयविशेषद्रोहस्य विषमविपाकहेतुत्वाद्, अनियतोत्सूत्रभाषणस्य निःशङ्कताभिव्यञ्जकतया सुतरां तथाभावात् । यथाह्याभोगेनोत्सूत्रभाषिणां रागद्वेषोत्कर्षादतिसंक्लेशस्तथाऽनाभोगेनोत्सूत्रभाषिणामप्यप्रज्ञापनीयानां मोहोत्कर्षादयं भवन्ननिवारित एव । अत एव तेषां भावशुद्धिरप्यप्रमाणम्, मार्गाननुसारित्वात्, तदुक्तमष्टकप्रकरणे- (२२/१-२-३) भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ।। राग द्वेषश्च मोहश्च भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षोऽस्य तत्त्वतः ।। तथोत्कृष्टे च सत्यस्मिन् शुद्धिर्वै शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद् भवेत् ।। इति ।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy