________________
३२०
" ताण चरणपरिणामे एयं असमंजसं इहं होइ । आसन्न सिद्धियाणं जीवाण तहा य भणियमिणं ।। नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं ण मुंचति ।। "
ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलवासैकाकिविहारयोर्गुणदोषविपर्यासमवबुध्यमानस्य स्वाभिनिवेशात्तपोरतस्यानागमिकत्वेनैकाकित्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बह्वसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् बाह्यवदसाधुत्वम् । तदुक्तं (पंचा. ११३७/३८)
उ तह विवज्जत्था सम्मं गुरुलाघवं अयाणंता । किरिया पवयणखिसावा खुद्दा ।।
पायं अभिन्नगठी तमाउ तह दुक्करंपि कुव्वंता । झवण ते साहू धंखाहरणेण विन्नेया ।। त्ति ।
धर्मपरीक्षा भाग - १ | गाथा - २५
तथापि न सर्वेषां सदृशः परिणाम इति यस्यैकाकिनो विहारिणो नातिक्रूरः परिणाम, किन्तु मृगपर्षदन्तर्गतस्य साधोरपवादादिभीरुतयैव तथाविधकर्मवशाद् गच्छवासभीरुतयैवैकाकित्वं संपन्नं, सूत्ररुचिश्च न निवृत्ता, तस्य स्वमत्यनुसारेण सदाप्रवृत्तेर्बह्वज्ञानकष्टे पतति । किञ्चित्तु कदाचित्परिणामविशेषवशादागमानुपात्यपि स्यात् । तदुक्तमुपदेशमालायां (४२५ ) -
"अपरिणिच्छियसुर्याणिहसस्स केवलमभिन्नसुत्तचारिस्स ।
सज्मेण वियं अन्नाणतवे बहुं पडइ ।। " इति ।
एतद्वृत्तिर्यथा-'अपरिनिश्चितः = सम्यगपरिच्छिन्नः, श्रुतनिकष = आगमसद्भावो, येन स तथा तस्य, केवलमभिन्नर्माविवृतार्थं यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः तेन चरितुं तदनुसारेणानुष्ठानं कर्त्तुं धर्मो यस्य सोऽभिन्नसूत्रचारी तस्य, सर्वोद्यमेनापि समस्तयत्नेनापि कृतमनुष्ठानं अज्ञानतपसि पञ्चाग्निसेवनादिरूपे बहु पतति, स्वल्पमेवागमानुसारि भवति, विषयविभागविज्ञानशून्यत्वादिति ।।' यद्यपि स्वमत्या प्रवर्त्तमानानां घुणाक्षरन्यायात्समागतं किञ्चिच्छुद्धमपि कृत्यं नागमानुपाति, अन्यथा निह्नवानामपि तदापत्तेः, तथाऽपि शुद्धक्रियाजन्यनिर्जराप्रतिबन्धकस्वमतिविकल्पे 'यत्किञ्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणं न तु मन्मतानुसारित्वेनैवागमः प्रमाणं' इत्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः । तदेवंविधो गीतार्थाऽनिश्रिततपश्चरणरतोऽगीतार्थः बालतपस्वी च शीलवानश्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ।। २५ ।।