SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ गाथा - २२ सम्यक्त्वविषयकप्रतिपन्नजिनाज्ञापरित्यागाद्देशविराधकत्वं चाविरुद्धमेव, अंशभेदादेकत्रैव सप्रतिपक्षोभयधर्मसमावेशाऽविरोधादिति चेत्, न, एवं सत्यसंयतभव्यद्रव्यदेवानां निह्नवानामभव्यादीनां चोपपत्तिमधिकृत्य साम्याभावप्रसङ्गात् । अथ नास्त्येव तेषामुपपातसाम्यं, ग्रैवेयकेष्वपि निह्नवस्य देवदुर्गततयोत्पादाद्, देवदुर्गतत्वं च न केवलं देवकिल्बिषिकत्वादिनैव, तत्र तेषामभावाद्, किन्तु संमोहत्वेन स च देवदुर्गतस्ततश्च्युतोऽनन्तकालं संसारे परिभ्रमति यदागमः ૨૪૨ कंदप्पदेवकिब्बिस अभिओगा आसुरी य संमोहा । ता देवदुग्गईओ मरणंमि विराहिआहुति ।। त्त आतुरप्रत्याख्यानप्रकीर्णके, व्याख्यादेशो यथा - 'संमोहत्ति संमोहयन्ति उन्मार्गदेशनादिना मोक्षमार्गाद् भ्रंशयन्ति ये ते संमोहाः, संयता अप्येवंविधा देवत्वेनोत्पन्ना संमोहा, एवंरूपा दुर्गतयो मरणेऽपध्यानादिना विराधितानां भवन्तिः, ततश्च्युता अनंतसंसारं परिभ्रमन्ति' इति चेत् ? न, अभव्यादीनामप्यकालवचनौषधप्रयोगात् प्राप्तग्रैवेयकोत्पादानां संमोहप्राबल्येन लुप्तसुखानां देवदुर्गतत्वाऽविशेषाद् ।' उक्तं चोपदेशपदे (४३८४४२) - अकालपओगे इत्तो विज्जगाइसुहसिद्धी । णणु साऽहिगओसहजोगसोक्खतुल्ला मुणेयव्वा ।। कुणइ जह संणिवाए सदोसहंजोग सोक्खमित्तं तु । तह एयं विण्णेयं अणोरपारंमि संसारे ।। - य तत्तओ तयंपि ह सोक्खं मिच्छत्तमोहिअमइस्स । हु जह रोद्दवाहिगहि अस्स ओहाओ वि तब्भावे || जह चेवोवहयनयणो सम्मं रूवं ण पासई पुरिसो । तह चेव मिच्छदिट्ठी विउलं सोक्खं ण पावेइ ।। असदभिणिवेसवं सो, णिओगओ ता ण तत्तओ भोगो । सव्वत्थ तदुवघाया विसघारियभोगतुल्लो त्ति ।। एतस्माद्धि वचनादभव्यादीनामेव निनवाद्यपेक्षयाऽप्यकालवचनौषधप्रयोगेण मिथ्याभिनिवेशदादतिदुःखितत्वेन क्लिष्टतरदेवदुर्गतत्वं प्रतीयते, परेण त्वभव्यनिह्नवानामनाराधकत्वविराधकत्वाभ्यां वैपरीत्यमङ्गीकृतं, प्रसज्यते च तत्प्रक्रियया द्रव्याज्ञापेक्षयाऽ भव्यादीनामपि सर्वाराधकत्वात् तात्त्विकसुदेवत्वमेवेति यत्किञ्चिदेतत् ।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy