________________
૨૨૬
टीडा :
पढमोत्ति । प्रथमः प्रथमभङ्गस्वामी ज्ञानदर्शनरहितः क्रियापरश्च देशाराधकत्वेनाधिकृतो बालतपस्वी परतन्त्रोक्तमुमुक्षुजनोचिताचारवान् वृत्तिकृन्मते, गीतार्थाऽनिश्रितोऽगीतः पदैकेदेशे पदसमुदायोपचारादगीतार्थो वाऽन्येषामाचार्याणां मते, अस्मिंश्च साम्प्रदायिकमतद्वये नातिभेद इत्यग्रे दर्शयिष्यते । अन्ये संप्रदायबाह्या भणन्ति - लिङ्गी - केवललिङ्गभृत् समग्रमुनिमार्गक्रियाधरो मिथ्यादृष्टिरेव सन् कुतश्चिन्निमित्तादङ्गीकृतजिनोक्तसाधुसामाचारीपरिपालनपरायणो देशाराधकः प्रथमभङ्गस्वामीति । अयमेतेषामाशयः - शाक्यादिमार्गस्थः शीलवानपि न देशाराधकः, प्रतिपन्नयदनुष्ठानाकरणेन जिनाज्ञाया विराधकत्वं तदनुष्ठानकरणेनैव जिनाज्ञाया आराधकत्वमिति नियमात् शाक्यादिमार्गानुष्ठानस्य चानी-दृशत्वात् तदङ्गीकृत्यापि तत्करणाकरणाभ्यां जिनाज्ञाराधनविराधनयोरभावाद्, अन्यथा तन्मार्गानुष्ठानत्याजनेन जैनमार्गानुष्ठानव्यवस्थापनाऽयुक्तत्वप्रसङ्गात् । किञ्च मिथ्यादृष्टीनां ज्ञानस्याप्यज्ञानत्वेनेव तन्मार्गपतितशीलस्याप्यशीलत्वेन प्रज्ञप्तत्वादन्यमार्गस्थानां शीलवत्त्वमेव न, इति कुतस्तेषां देशाराधकत्वम्? अन्यभिक्षवो हि जीवाद्यास्तिक्यरहिताः सर्वथाऽचारित्रिण एवेति 'संति एगेहिं भिक्खुहिं गारत्था संजमुत्तरा' (उत्तरा . ५ / २०) इत्यादि बहुग्रन्थप्रसिद्धं, अन्यथाऽन्यतीर्थिकाभिमतदेवादयोऽपि देवत्वादिनाऽभ्युपगन्तव्याः प्रसज्येरन्, मोक्षमार्गभूतशीलस्योपदेष्टृत्वात्, तस्माद् भव्या अभव्याश्च निखिलजैनसामाचार्यनुष्ठानयुक्ता मिथ्यादृष्टय एव देशाराधका ग्राह्याः, तेषां द्रव्यशीलस्यापि मार्गपतित्वेन व्यवहारनयापेक्षया प्रशस्तत्वाद्, अत एवाराधकानां सतामेतेषां नवमग्रैवेयकं यावदुपपातो न विरुद्धः, अखंडसामाचारीपरिपालनबलेन तत्रोत्पादात् । यदागमः 'अह भंते असंजयभविअदव्वदेवाणं भवणवासी उक्कोसेण उवरिमगेविज्जएसुं त्ति ।' (भग० श० १ उ० २) वृत्त्येकदेशो यथा 'तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वाऽसंयतभव्यद्रव्यदेवाः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्तो द्रव्यलिङ्गधारिणो गृह्यन्ते । ते ह्यखिलसामाचारीकेवलक्रियाप्रभावत एवोपरितनग्रैवेयकेषूत्पद्यन्त इति, असंयताश्च ते, सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति ।' इत्थं चैतदङ्गीकर्तव्यं - जिनोक्तमनुष्ठानमन्तरेणाराधकत्वाभावाद्, मिथ्यादृष्टित्वमन्तरेण बालतपस्वित्वाभावाच्चेति । । १९ ।।
टीडार्थ :
धर्मपरीक्षा भाग - १ / गाथा - १७
-
-
प्रथमः .....
. बालतपस्वित्वाभावाच्चेति ।। " पढमोंत्ति" प्रती छे प्रथम = प्रथम लंगना स्वामी, ज्ञानદર્શન રહિત અને ક્રિયામાં તત્પર=ધર્માનુષ્ઠાનની ક્રિયામાં તત્પર, દેશારાધકપણાથી સ્વીકારાયેલો બાલતપસ્વી, અન્યદર્શનમાં રહેલ ઉચિત આચારવાળો વૃત્તિકાર=ભગવતીસૂત્રના વૃત્તિકારના મતે છે. અથવા ગીતાર્થ અનિશ્રિત અગીત=પટૈક દેશમાં પદસમુદાયના ઉપચારથી અગીતાર્થ, અન્ય આચાર્યોના