SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૭ ૧૮૧ 'पावं ण तिव्वभावा कुणइ...' (पंचा० ३-४) इत्यादिलक्षणः, आदिशब्दान्मार्गाभिमुखमार्गपतितौ गृह्यते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरूपितः ‘मग्गदयाणं' इत्याद्यालापकव्याख्यायां, ‘मार्गश्चेतसोऽवक्रगमनं, भुजंगमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धा सुखेत्यर्थः' तत्र पतितो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति, एतौ च चरमयथाप्रवृत्तकरणभागभाजावेव विज्ञेयौ, अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा, धीरैस्तीर्थकरादिभिः निर्दिष्टो व्यवहारत इति ।। निश्चयतो निश्चयनयमतेन पुनरेष वचनौषधप्रयोगकालो विज्ञेयः कः? इत्याहग्रन्थिभेदकालस्तु-ग्रन्थिभेदकाल एव यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति तस्मिन्नेवेत्यर्थः । कुतः? यत एतस्मिन् ग्रन्थिभेदे सति विधिना अवस्थोचितकृत्यकरणलक्षणेन सदा सर्वकालं या पालना च वचनौषधस्य, तया कृत्वाऽऽरोग्यं संसारव्याधिरोधलक्षणं, एतस्माद् वचनौषधप्रयोगाद् भवति । अपुनर्बन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मबोधविधायकः, अनाभोगबहुलत्वात्तत्कालस्य, भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेन निपुणबुद्धितया तेषु कृत्येषु वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति, ग्रन्थिभेदमेव पुरस्कुर्वन्नाह - इहरावि हंदि एअंमि एस आरोग्गसाहगो चेव । पोग्गलपरिअट्टद्धं जम्णमेअंमि संसारो ।।४३४।। इतरथाऽपि विधेः सदापालनमन्तरेणापि, हन्दीति पूर्ववत् एतस्मिन् ग्रन्थिभेदे कृते सति एषः वचनप्रयोगः आरोग्यसाधकश्चैव भावारोग्यनिष्पादक एव सम्पद्यते । तथा च पठ्यते - लब्ध्वा मुहूर्त्तमपि ये परिवर्जयन्ति, सम्यक्त्वरत्नमनवद्यपदप्रदायि । यास्यन्ति तेऽपि न चिरं भववारिराशौ, तबिभ्रतां चिरतरं किमिहास्ति वाच्यम् ।। () अत्र हेतुमाह-पुद्गलानामौदारिक-वैक्रिय-तैजस-भाषाऽऽनप्राण-मनः-कर्मग्रहणपरिणतानां विवक्षितकालमादौ कृत्वा यावतां सामस्त्येनैकजीवस्य ग्रहनिसर्गौ सम्पद्यते स कालः पुद्गलपरावर्त्त इत्युच्यते पुद्गलग्रहणनिसर्गाभ्यां परिवर्त्तन्ते परापरपरिणतिं लभन्तेऽस्मिन्निति व्युत्पत्तेः, तस्याद्धं यावद्, यद् यस्माद्, ऊनं किंचिद्धीनं, एतस्मिन् ग्रन्थिभेदे सति संसारो जीवानां तीर्थकराद्याशातनाबहुलानामपि । अत्र दृष्टान्ताः कूलवालकगोशालकादयो वाच्याः' इति । सार्थ : भवाभिनन्दिनां ..... वाच्याः इति । 'मग्गाणुसारिभावोत्ति' प्रती छे. "क्षुद्र, लाममा ति, न=Aष्ट ल्याएवाणा, मत्सरपाणा, मयवाणासात प्ररना मयथी सह पिवण, શઠ, અજ્ઞ=આત્માના પારમાર્થિક વિષયમાં મૂર્ખ, નિષ્ફલ આરંભથી યુક્ત=આત્માના કલ્યાણનું કારણ બને તેવા સફલ आमयी सति, मपम छ." (योटिसमस्यय क्ष8-99, योगनिहु प्र२t als-८७) એ પ્રમાણે યોગદષ્ટિ અને યોગબિંદુ પ્રકરણના શ્લોકમાં કહેલ ભવાભિનંદીના દોષોનો નાશ થયે છતે ગુણની વૃદ્ધિ થવાથી ચરમપુદ્ગલપરાવર્તમાં જ માર્ગાનુસારી ભાવ થાય છે, કેમ કે અપુતબંધકાદિને
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy