________________
१५५
धर्मपरीक्षा भाग-१ | गाथा-१४ यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताऽप्येवमस्याः सर्वत्र सुस्थिता ।। यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ।। तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तभेदपरिकल्पश्च तथैवाग्दिशामयम् ।। न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाछेदाधिको मतः ।। कुष्ट्यादि च नोसन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा ।। ननु यद्येवंविधं माध्यस्थ्यं परेषां स्यात् तदा मार्गाभाव(वे) जैनत्वं भवेत्, तदेव तु व्यवहारतो जैनमार्गाऽनाश्रयणे दुर्घटमिति न तेषां माध्यस्थ्यमिति चेद्? न, मोहमान्छे परेषामपि योगिनामेतादृशमाध्यस्थ्यस्येष्टत्वाद्, यदयं कालातीतवचनानुवादो योगबिन्दौ (श्लोक ३००-३०८) - माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया । तत्त्वं निरूपणीयं स्यात्कालातीतोऽप्यदोऽब्रवीत् ।। अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः ।। मुक्तो बुद्धोऽर्हन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् ।। अनादिशुद्ध इत्यादियों भेदो यस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ।। विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ।।