________________
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૧૪
प्राप्यस्य मोक्षस्य चैकत्वात् तदर्थिनां गुणस्थानपरिणतितारतम्येऽपि न मार्गभेद इति तदनुकूलसर्वज्ञभक्तावप्यविवाद एव तेषाम् । उक्तं च (१२७-१३३) -
प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ।। एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्ध्येकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परंब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।।
तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः । । ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ।। सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थतौ ।
૧૫૪
आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ।। इति ।
ननु देशनाभेदान्नैकः सर्वज्ञ इति सर्वेषां योगिनां नैकसर्वज्ञभक्तत्वमिति चेद् ? न, विनेयानुगुण्येन सर्वेषां देशनाभेदोपपत्तेः, एकस्या एव तस्या वक्तुरचिन्त्यपुण्यप्रभावेन श्रोतृभेदेन भिन्नतया परिणतेः कपिलादीनामृषीनामेव वा कालादियोगेन नयभेदात्तद्वैचित्र्योपपत्तेः तन्मूलसर्वज्ञप्रतिक्षेपस्य महापापत्वात् । उक्तं च (योग० समु० १३४ - १४२ )
चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ।। यस्य येन प्रकारेण बीजाधानादिसंभव: । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।। एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावास ।।