SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ૧૪૬ धर्मपरीक्षा भाग-१ / गाथा-१३ 41, पढमं खलु गुणट्ठाणं पसिद्धं प्रथम स्थान प्रसिद्ध छे=योगनी प्राप्तिना प्रबार ગુણીગુણસ્થાનકરૂપ પ્રથમ ગુણસ્થાનક પ્રસિદ્ધ છે. ll૧૩મા गाथार्थ: અને આથી=અનાભિગ્રહિકમિથ્યાત્વ હિતકારી છે એમ પૂર્વમાં કહ્યું આથી, લબ્ધયોગદષ્ટિવાળા, પરમાર્થ ગવેષણમાં તત્પર એવા જીવોના મિથ્યાત્વમાં પણ પ્રથમ ગુણસ્થાનક પ્રસિદ્ધ છે યોગની પ્રાતિના પ્રબલકારણ ગુણીગુણસ્થાનકરૂપ પ્રથમ ગુણસ્થાનક પ્રસિદ્ધ છે. ll૧૩IL टी : इतश्चानाभिग्रहिकस्य हितकारित्वादेव च मिथ्यात्वेऽपि खल्विति निश्चये, लब्धयोगदृष्टीनां मित्रादिप्रथमदृष्टिचतुष्टयप्राप्तिमतां, परमार्थगवेषणपराणां मोकप्रयोजनानां योगिनां, प्रथमं गुणस्थानमन्वर्थं प्रसिद्धम् । अयं भावः-मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्यअद्वेषादिगुणस्थाः खेदादिदोषपरिहाराद् यदा संवेगतारतम्यमाप्नुवन्ति तदा मार्गाभिमुख्यात्तेषामिक्षुरसकक्कबगुडकल्पा मित्रा तारा बला दीप्रा चेति चतस्रो योगदृष्टय उल्लसन्ति, भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । तत्र मित्रायां दृष्टौ स्वल्पो बोधो, यमो योगाङ्ग, देवकार्यादावखेदो, योगबीजोपादानं, भवोद्वेगसिद्धान्तलेखनादिकं, बीजश्रुतौ परमश्रद्धा, सत्संगमश्च भवति, चरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेवेति योगविदो विदन्ति । उक्तं च - अपूर्वासन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः ।।३९ ।। अस्यां चावस्थायां मिथ्यादृष्टावपि गुणस्थानपदस्य योगार्थघटनोपपद्यते, उक्तं च - प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः ।।४०।। तारायां तु मनाक्स्पष्टं दर्शनं, शुभा नियमाः, तत्त्वजिज्ञासा, योगकथास्वविच्छिन्ना प्रीतिः, भावयोगिषु यथाशक्त्युपचारः, उचितक्रियाऽहानिः, स्वाचारहीनतायां महात्रासः, अधिककृत्यजिज्ञासा च भवति, तथाऽस्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविधमुमुक्षुप्रवृत्तेः कात्स्न्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्त्तते । उक्तं च - नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा ।।४८।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy