________________
૧૩૮
धर्मपरीक्षा भाग - १ / गाथा - १२ તે ઉચિત છે. તે પૂર્વે સર્વ દેવોને નમસ્કા૨ ક૨વારૂપ અનાભિગ્રહિકમિથ્યાત્વ છે, તે પણ તેઓને મધ્યસ્થ ગુણની વૃદ્ધિ દ્વારા હિતનું કારણ છે. માટે મિથ્યાત્વમંદતામાં વર્તતો મધ્યસ્થભાવ સમ્યક્ત્વની પ્રાપ્તિનું કારણ બને છે.
टीडा :
इत्थं चास्यानाभिग्रहिकमपि गुणकारि सम्पन्नम् तथा चानाभिग्रहिकमप्याभिग्रहिककल्पत्वात्तीव्रमेवेति 'सुनिश्चितमित्यादि' ( अयोग व्य० द्वा. २७) संमतिप्रदर्शनपूर्वं यः प्राह तन्निरस्तं, मुग्धानां स्वप्रतिपत्तौ तस्य गुणत्वात्, सुनिश्चितमित्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव दोषत्वप्रतिपादनाद् न चास्याविशेषप्रतिपत्तिः सम्यग्दृष्टेरिव दुष्टेति शङ्कनीयं, अवस्थाभेदेन दोषव्यवस्थानाद्, अन्यथा साधोरिव सम्यग्दृशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभावनीयम् एतेन पृथिव्याद्यारंभप्रवृत्तापेक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोभनः, देवादिशुभगतिहेतुत्वात्, इत्यसत्, तथाभूताध्यवसायस्य शोभनत्वे सम्यक्त्वोच्चारे 'णो कप्पइ अण्णउत्थिए वा०' इत्यादिरूपेण मिथ्यात्वप्रत्याख्यानानुपपत्तिप्रसक्तेः न हि शुभाध्यवसायस्य तद्धेतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव, न ह्यत्रापेक्षिकमपि शुभत्वं घटते, स्वस्त्रीसङ्गपरित्यागेन परस्त्रीसङ्गप्रवृत्तस्येव बहुपापपरित्यागमन्तरेणाल्पपापपरित्यागस्याशुभत्वाद्, अत एव पृथिव्याद्यारंभप्रवृत्तस्यापि सम्यग्दृशोऽन्यतीर्थिकदेवाद्याराधनपरित्यागोपपत्तिः इति परस्यैकान्ताभिनिवेशो निरस्तः, उत्कटमिथ्यात्ववन्तं पुरुषं प्रतीत्य निजनिजदेवाद्याराधनाप्रवृत्तेर्महाऽनर्थहेतुत्वेऽप्यनाग्रहिकमादिधार्मिकं प्रति तथात्वस्याभावात्, तस्याविशेषप्रवृत्तेर्दुर्गतरणहेतुत्वस्य हरिभद्रसूरिभिरेवोक्तत्वात्, प्रत्याख्यानं च पूर्वभूमिकायां शुभाध्यवसायतोरयुत्तरभूमिकायां स्वप्रतिपन्नविशेषधर्मप्रतिबन्धकरूपेण भवति, नैतावता पूर्व भूमिकायामपि तस्य विलोपो युक्तः, यथा हि-प्रतिपन्नकृत्स्नसंयमस्य जिनपूजायाः साक्षात्करणनिषेधात्, तस्य स्वप्रतिपन्नचारित्रविरोधिपुष्पादिग्रहणरूपेण तत्प्रत्याख्यानेऽप्यकृत्स्नसंयमवतां श्राद्धानां न तदनौचित्यं तथा प्रतिपन्नसम्यग्दर्शनानां स्वप्रतिपन्नसम्यक्त्वप्रतिबन्धकविपर्यासहेतुत्वेनाविशेषप्रवृत्तेः प्रत्याख्यानेऽपि नादिधार्मिकाणां तदनौचित्यमिति विभावनीयम् । नन्वेवमादिधार्मिकस्य देवादिसाधारणभक्तेः पूर्वसेवायामुचितत्वे जिनपूजावत्साधूनां साक्षात्तदकरणव्यवस्थायामपि तद्वदेवानुमोद्यत्वापत्तिरिति चेत् ? न, सामान्यप्रवृत्तिकारणतदुपदेशादिना तदनुमोद्यताया इष्टत्वात्, केवलं सम्यक्त्वाद्यनुगतं कृत्यं स्वरूपेणाप्यनुमोद्यमितरच्च मार्गबीजत्वादिनेत्यस्ति विशेष इत्येतच्चाग्रे सम्यग् विवेचयिष्यामः ।। १२ ।।