SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धर्भपरीक्षा माग-१ | गाथा-6 ८८ टी : ननु प्रज्ञापनावृत्तौ व्यावहारिकाणामुत्कर्षतोऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्त्तस्थितिः, तत ऊर्ध्वं चावश्यं सिद्धिरिति स्फुटं प्रतीयते । तथा च तद्ग्रन्थः 'ननु यदि वनस्पतिकालप्रमाणमसंख्येयाः पुद्गलपरावर्तास्ततो यद् गीयते सिद्धान्ते 'मरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीद्' इति तत्कथं स्यात्? कथं वा वनस्पतीनामनादित्वम्? प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात् । तथाहि-असंख्येया; पुद्गलपरावर्तास्तेषामवस्थानमान; तत एतावति कालेऽतिक्रान्ते नियमात्सर्वेऽपि कायपरावर्तं कुर्वते, यथा स्वस्थितिकाले सुरादयः । उक्तं च (विशेषणवती-४६/४७/४८) जइ पुग्गलपरि अट्टा संखाईआ वणस्सइकालो । तो अच्चंतवणस्सइ जीवो कह नाम मरुदेवी ।। हुज्ज व वणस्सईणं अणाइअत्तमत एव हेऊओ? जमसंखेज्जा पोग्गलपरिअट्टा तत्थवत्थाणं ।। कालेणेवइएणं तम्हा कुव्वंति कायपल्लढें । सव्वेवि वणस्सइणो ठिइकालंते जह सुराई ।। किञ्च, एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं तदपीदानी प्रसक्तं, कथम्? इति चेत्? उच्यते-इह प्रतिसमयमसंख्येया वनस्पतिभ्यो जीवा उद्वर्त्तन्ते, वनस्पतीनां च कायस्थितिपरिमाणमसंख्येयाः पुद्गलपरावर्ताः, ततो यावन्तोऽसंख्येयेषु पुद्गलपरावर्तेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनाम् । ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनं, प्रतिनियतपरिमाणत्वात्, एवं च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात् । आह च (विशेषणवती-५०/४९) - कायठिइकालेणं तेसिमसंखिज्जयावहारेणं । णिल्लेवणमावण्णं सिद्धीवि य सव्वभव्वाणं ।। पइसमयमसंखिज्जा जेणुव्वटुंति तो तदब्भत्था । कायठिईए समया वणस्सइणं च परिमाणं ।। न चैतदस्ति, वनस्पतीनामनादित्वस्य-निर्लेपनप्रतिषेधस्य-सर्वभव्यासिद्धेः- मोक्षपथाऽव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात् । उच्यते- इह द्विविधा जीवाः-सांव्यावहारिका असांव्यावहारिकाश्च, तत्र ये निगोदावस्थात उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्त्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति सांव्यावहारिका उच्यन्ते,
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy