________________
धर्भपरीक्षा भाग-१ | गाथा-6
उक्कोसं तिरियगईअसण्णिएगिदिवणणपुंसेसु । भमिओ आवलिअअसंखभागसमपुग्गलपरट्टो ।। अत एवोत्कृष्टो वनस्पतिकालोऽपि प्रवचने व्यावहारिकापेक्षयैवोक्तः । तथाहि - 'वणस्सइकाइआणं पुच्छा, जहणणेणं अंतोमुहत्तं, उक्कोसेणं अणंतकालं-अणंता उस्सप्पिणिओसप्पिणीओ कालओ, खित्तओ अणंता लोगा=असंखेज्जा पुग्गलपरिअट्टा' इति । इदमेव चाभिप्रेत्यास्माभिरुक्तं -
ववहारीणं णियमा संसारो जेसि हुज्ज उक्कोसो । तेसिं आवलिअअसंखभागसमपोग्गलपरट्टा ।।
इत्यस्मन्मतमदुष्टमिति चेत् ? नायमप्येकान्तः, अनन्तपुद्गलपरावर्त्तकालस्थायित्वेनाव्यवहारित्वासिद्धेः, व्यावहारिकाणामप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तान्तरितभूयोभवभ्रमणेनानन्तपुद्गलपरावर्तावस्थानस्यापि संभवात् । तदुक्तं संग्रहणीवृत्तौ - ‘एते च निगोदे वर्तमाना जीवा द्विधासांव्यवहारिका असांव्यवहारिकाश्च । तत्र ये सांव्यवहारिकास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्धृत्य केचिद् भूयोऽपि निगोदमध्ये समागच्छन्ति, तत्राप्युत्कर्षत आवलिकाऽसंख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु मध्ये समागच्छन्ति, एवं भूयो भूयः सांव्यवहारिकजीवा गत्यागती: कुर्वन्ति ।' इति । यत्पुनरत्र - 'भूयोभूयः परिभ्रमणेऽप्युक्तासंख्येयपुद्गलपरावर्त्तानतिक्रम एव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेति प्रतीतौ कुतो 'भूयोभूयः' शब्दाभ्यामानन्त्यकल्पनाया गन्धोऽपि, तेन भूयोभूयः परिभ्रमणेऽप्यसंख्यातत्वं तदवस्थमेव । अत एव तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिर्भणिता' इति परेण स्वमतं समाहितं, तदपि नैकान्तरमणीयं, ‘एवं विकलेन्द्रियैकेन्द्रियेषु गतागतैरनन्तान् पुद्गलपरावर्तान् निरुद्धोऽतिदुःखितः' इत्यादिना 'अन्यदा च कथमपि नीतोऽसावार्यदेशोद्भवमातङ्गेषु, तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृङ्ख्यकार्यप्रवर्त्तनाभ्यामेव लीलयैव व्यावृत्त्य विधृतोऽनन्तपुद्गलपरावर्तान्' इत्यादिना च महता ग्रन्थेन भुवनभानुकेवलिचरित्रादौ व्यावहारिकत्वमुपेयुषाऽपि संसारिजीवस्य विचित्रभवान्तरिततयाऽनन्तपुद्गलपरावर्त्तभ्रमणस्य निगदसिद्धत्वात् । तथा योगबिन्दुसूत्रवृत्तावपि नरनारकादिभावेनानादौ संसारेऽनन्तपुद्गलपरावर्त्तभ्रमणस्वाभाव्यमुक्तम् । तथाहि -
अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथागताः ।। एतवृत्तिः- अनादिरविद्यमानमूलारंभ, एष प्रत्यक्षतो दृश्यमानः संसारो भवः कीदृशः? इत्याह-नानागति