________________
४४
Gटेशभाला लाग-१ | गाथा-3१ s:उपदेशसहस्रैरपि बोध्यमानो न बुध्यते कश्चित्, कथमित्याह-यथा ब्रह्मदत्तराजा उदायिनृपमारकश्च । एवकारस्य कश्चिदेव न बुध्यते, न तु सर्व इत्यत्र व्यवहितः सम्बन्ध इति समासार्थः, व्यासार्थः कथानकगम्यः । तत्राद्यस्तावत्-ब्रह्मदत्तश्चक्रवर्ती सञ्जातजातिस्मरणो जन्मान्तरसहोदरसङ्गमार्थं 'यः पश्चार्धं पूरयति तस्मै स्वार्धराज्यं प्रयच्छामी'ति प्रतिज्ञायेदं श्लोकपादद्वयं सदसि न्यगादीत्'आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ।' तदाकर्ण्य जनाः पठितुमारेभिरे । अन्यदा स जन्मान्तरसत्कसहोदरजीवः पुरिमतालनगरे वणिक्सुतो भूत्वा गृहीतप्रव्रज्यः सञ्जातजातिस्मरणस्तत्रैवागतः, श्रुत्वा च अरघट्टिकेन पठ्यमानं श्लोकार्धं स प्राह-'एषा नौ षष्टिका जातिरन्योन्याभ्यां वियुक्तयोः ।।१।। इतरस्तु तद् गृहीत्वा गतो राजकुलं, पठितः प्रभोः पुरतः सम्पूर्णः श्लोकः । स्नेहाऽतिरेकेण गतो मूर्छा राजा, चन्दनरससेकादिभिर्लब्धा चेतना । न मया पूरितोऽयमिति विलपत्रसौ मोचितः कदर्थकेभ्यः, पृष्टश्च 'कोऽस्य पूरक' इति । स प्राह-'अरघट्टसमीपवर्ती मुनिः ।'
ततो भक्तिस्नेहाकृष्टचित्तः सपरिकरो निर्जगाम राजा, दृष्टो मुनिः, तुष्टश्च चेतसा, वन्दितः सविनयम्, उपविष्टस्तदन्तिके । मुनिनाप्यारब्धा देशना, दर्शिता भवनिर्गुणता, वर्णिताः कर्मबन्धहेतवः, श्लाघितो मोक्षमार्गः, ख्यापितः शिवसुखातिशयः, ततः संविग्ना परिषत्, न भावितो ब्रह्मदत्तः प्राह च भगवन् ! यथा स्वसङ्गमेनालादिता वयं, तथालादयतु भवान् राज्यस्वीकरणेन, पश्चात्तपः सममेव करिष्यावः एतदेवं च तपःफलम् । मुनिराह-'युक्तमिदं भवदुपकारोद्यतानां, केवलं दुर्लभेयं मानुषावस्था, सततपातुकमायुः, चञ्चला श्रीः, अनवस्थिता धर्मबुद्धिः, विपाककटवो विषयाः, तदासक्तानां ध्रुवो नरकपातः । दुर्लभं पुनर्मोक्षबीजं, विशेषतो विरतिरत्नं, तत्त्यागाद् न दुस्तरनरकपातहेतुः कतिपयदिनभावि राज्याश्रयणमालादयति चेतो विदुषां, तत्परित्यजाऽमुं कदाशयं, स्मर प्राग्भवाऽनुभूतदुःखानि, पिब जिनवचनामृतं, सञ्चर तदुक्तमार्गेण, सफलीकुरु मनुजजन्मेति । स प्राह-'भगवन्नुपनतसुखत्यागेनाऽदृष्टसुखवाञ्छाऽज्ञतालक्षणं, तन्मैवमादिश, कुरु मत्समीहितं ?' ततः पुनरुक्तमुक्तोऽपि यदा न प्रतिबुद्ध्यते तदा चिन्तितं मुनिना, 'आः ! ज्ञातं मयैतत्, यदावां मातङ्गभवे चित्रसम्भूतनामानौ श्रमणको सन्तौ गतौ गजपुरं, प्रविष्टोऽयं गोचरे, खलीकृतो नमुचिमन्त्रिणा, सञ्जातकोपतया तेजोनिसर्गोद्यतेन मुक्तो वदनेन धूमः समाकुलीभूताच्च जनाद्विज्ञाय वृत्तान्तमागतस्तत्र सनत्कुमारचक्रवर्ती ततस्तेन मया चोपशमितः कृच्छ्रेण, प्रपन्नावनशनं, वन्दितौ च साऽन्तःपुरेण चक्रवर्तिना, ततः स्त्रीरत्नाऽलकसंस्पर्शवेदनजाता