________________
૨૯૪
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૮૨ અવતરણિકાર્ય :
આથીeતત્વને કંઈક જાણવા છતાં ભાગ્યહીન જીવો પ્રત્યેકબુદ્ધનું દર્શત લઈને પોતાના સર્વીર્યનો નાશ કરે છે આથી, વિચારક પુરુષે કોઈ દુષ્ટ આલંબન લેવું જોઈએ નહિ, જે કારણથી રાગાદિનો સમૂહ દુર્જય છે; કેમ કે સર્વદા અવિશ્વાસનું હેતુપણું છે અને તે રીતે=વિચારક પુરુષે દુષ્ટ આલંબન લેવું જોઈએ નહિ તે રીતે કહે છે – गाथा :
सोऊण गई सुकुमालियाए, तह ससगभसगभयणीए ।
ताव न वीससियव्वं, सेयट्ठीधम्मिओ जाव ।।१८२।। गाथार्थ :
તે રીતે શશભશકની ભગિની સુકુમારિકાની અવસ્થાને સાંભળીને જ્યાં સુધી શ્વેત અસ્થિવાળો ધાર્મિક છે, ત્યાં સુધી વિશ્વાસ કરવો જોઈએ નહિ=રાગાદિનો વિશ્વાસ કરવો જોઈએ નહિ. ll૧૮શા टीडा :
श्रुत्वाऽऽकर्ण्य, गतिमवस्थां, सुकुमारिकायाः तथा शशकभसकभगिन्याः तावन्न विश्वसितव्यं रागादीनामिति शेषः, श्वेतानि धवलानि अस्थीनि यस्यासौ श्वेतास्थिzतो भण्यते, धर्मेण चरति धार्मिको यतिः श्वेतास्थिश्चासौ धार्मिकश्चेति समासः, स यावन्न सम्पन्न इत्युपस्कारः । यावच्छरीरी मुनिस्तावत् तेन रागादिभ्यो भेतव्यमिति भावः यदि वा श्रेयोर्थी मोक्षार्थी धार्मिको यतिर्यावत् तावन्न विश्वसनीयम् । निष्ठितार्थेन सता विश्रम्भः कार्यः इत्यक्षरार्थः ।
अधुनाऽत्र कथानकम्वसन्तपुराद्राजपुत्रौ शशक-भसकाभिधानौ निष्क्रान्ती, पश्चाद्गीतार्थो जाती, भगिनीं सुकुमारिकां तो प्रव्राजयामासतुः । तस्याश्चोत्कृष्टरूपतयाकृष्टचेतसस्तरुणाः साध्वीप्रतिश्रये प्रविश्य तां निरीक्षाञ्चक्रिरे । ततस्तदुपद्रवः कथितस्तयोर्महत्तरया । पश्चात्तामेकगृहे निक्षिप्य रक्षतोस्तयोस्ते तरुणा योद्धमारब्धाः । ततो मनिमित्तोऽयमनयोः क्लेश इति धिग्मामनर्थकारिशरीरमिति वैराग्यात्प्रतिपन्नं तयाऽनशनम् । ततोऽतीवक्षीणशरीरत्वात् सञ्जातमोहातिरेका मृतेति मत्वा परिष्ठापिता ताभ्याम् । शीतपवनसम्पर्कात्प्रत्यागतप्राणा दृष्टा सैकेन सार्थवाहेन । स्त्रीरत्नमेतदिति बुद्ध्याभ्य
गोद्वर्तनौषधादिक्रमेण स तां पुनर्नवीचक्रे । क्रमेण स तयापि तथाभवितव्यतया कर्मवैचित्र्यादनुपकृतवत्सलोऽयमिति मत्वा च सर्वं प्रतिपेदे स्थिता च तेन सह कियन्तमपि कालं विषयसुखमुपभुञ्जाना