________________
૨૭૭
ઉપદેશમાલા ભાગ-૧ | ગાથા-૧૭૦ देशनयेत्यपिशब्दार्थः, केचिल्लघुकर्मका बुध्यन्ते, तत्त्वमिति गम्यते, पुष्पचूलावत्, इत्यत्र कथानकम्पुष्पभद्रे नगरे पुष्पकेतुर्नृपतिः, पुष्पवत्यां यमलयुग्ममुदपादि, पुष्पचूलः पुष्पचूला च । तयोर्योवने गाढतरस्नेहसम्बन्धमुपवीक्ष्य जनकोऽचिन्तयत्, यद्येतन्मिथुनकं वियोक्ष्यते तदा नूनं प्राणांस्त्यक्ष्यति अतोऽवियोग एव श्रेयानित्यालोच्याकरोत्सचिवादिभिर्वार्यमाणोऽपि तयोर्दाम्पत्यम् । तनिदेन प्रवद्राज पुष्पवती, कृत्वा च तपोऽगमदिवं, ततः प्रयुक्तावधेर्विज्ञाय प्राग्भवमनयोर्विषयव्यामूढयोभवभ्रमणं मा भूदिति सञ्चिन्त्याऽयं प्रतिबोधोपाय इति स्वप्ने दर्शयामास नरकान्तस्तीव्रवेदनावितुद्यमानानारकान् पुष्पचूलायाः । सत्रासं विबुद्धया न्यवेदि तया भर्तुः, तेनापि एते ज्ञास्यन्तीत्याय पृष्टाः पाखण्डिनो नरकस्वरूपम् । ते चान्योन्यं विरुद्धं प्रलेपुः, तत्र च मासकल्पेन स्थितोऽनिकासुतनामा सूरिः तमाहूय पप्रच्छ । स दृष्टाद्विशिष्टतरमाचचक्षे, साऽवोचत् किं भगवतापि स्वप्नो दृष्टः ?, गुरुराह-न स्वप्नः किन्तु सर्वज्ञागमः । अन्यदा देवेन दर्शितास्तथैव देवलोकाः । तेष्वपि सविशेषमाख्यातेषु आह-भगवन् ! कथमेतेषु गम्यते ? इति । गुरुणोक्तं सुचरितधर्मेण । ततो विमोच्य सा भर्तुरात्मानं प्राव्राजीत्, जज्ञे च मार्गज्ञा ।
अन्यदा ज्ञानातिशयेन भाविमहादुर्भिक्षमाकलय्य जवाबलपरिक्षीणतया साधून देशान्तरेषु विसृज्य सूरयस्तत्रैव तस्थुः पुष्पचूला च । सा हि राज्ञा तत्रैवावस्थानव्यवस्थया मुक्ता प्रव्राजितेति कृत्वा, तस्याश्च गुरुवैयावृत्त्यं सबहुमानमाचरन्त्या विशुद्धाध्यवसायतया समुत्पन्नं केवलज्ञानं, ततो यथेष्टं गुरूणां सम्पादयामास । ते प्रोचुश्चिन्तितं भवती कथं जानीते (से) ? सा आहकेवलेनेति ।
अन्ये तु ब्रुवते किल वर्षति पर्जन्ये भक्तमादायागता, तैरुक्ता कथमागतासि ? सावोचदचित्तप्रदेशेनेति । कथमिति पृच्छतां कथितं केवलज्ञानावलोकेन । ततः किमहं न सेत्स्यामीति चिन्तापरोऽभूत्सूरिः, इतराह-मोन्मनीभवन्तु, भविष्यति भवतां गङ्गामध्ये केवलमिति । ते च गच्छप्रस्थापनदिनादारभ्य विशेषतो विकृष्टतमतपःसंयमैरात्मानं भावयामासुः । अन्यदा गङ्गायां नावारूढा यत्र यत्र ते तिष्ठन्ति तत्र तत्रासौ नौरधो गच्छति स्म, मध्ये स्थितानां मज्जितुमारब्धा, ततः स्वमरणभयाद्रोषाच्च नाविकैः क्षिप्यमाणानां जले मदीयक्षारशरीरसम्पर्कात्रीरजीवा विनश्यन्तीति करुणापरीतचेतसामासादितशुक्लध्यानानामुत्पनं केवलं ज्ञानं क्षीणमायुः गताः शिवधामेति ।।१७०।। टोडार्थ:संसारे ..... शिवधामेति ।। संसारमा समां, पंयनामावस्य८५ विषयसुममा मास पाने