________________
૨૭૪
पहेशभावा भाग - १ / गाथा - १५८-१५७
।
सो उग्गभवसमुद्दे, सयंवरमुवागएहिं राएहिं करहो वक्खरभरिओ, दिट्ठो पोराणसीसेहिं ।। १६९ ।।
गाथार्थ :
સાધુઓથી સ્વપ્નમાં નાના હાથીઓથી પરિવરેલો શૂકર જોવાયો તે અંગારા રૂપ જીવોના વધને કરનારો સુશિષ્યના પરિવારવાળો કોઈક ક્રુગુરુ હતો.
સ્વયંવરમંડપમાં આવેલા રાજા એવા પુરાતન શિષ્યો વડે ભારથી ભરેલો ઊંટ ઉગ્ર ભવસમુદ્રમાં ભમતો એવો તે પોતાનો ગુરુ જોવાયો. ।।૧૬૮-૧૬૯II
टीका :
गाथाद्वयस्याप्यर्थः कथानकगम्यस्तच्चेदम्
विजयसेनसूरेः शिष्येण स्वप्ने शूकरो गजकलभशतपञ्चकेन परिवारितो ददृशे कथितं गुरोः, सोऽवोचदभव्यः कश्चित्सुपरिकरः समायास्यति, तद्दिने एवागतो रुद्रदेवनामाचार्यः शतपञ्चकेन साधूनां, कृतोचिता प्रतिपत्तिः । निशि परीक्षार्थं गुरूक्तैः स्थण्डिलमार्गे विकीर्णाः साधुभिरङ्गाराः । ततः शेषागन्तुकाः साधवः पादपातात् किशिकिशिकाशब्दमाकर्ण्य सानुक्रोशं मिथ्यादुष्कृतमिति वदन्तो निवर्तन्ते स्म । रुद्रदेवस्तु तदाकर्णनात्सहर्षं गाढतरं ममर्द, उवाच च - अर्हद्भिरेतेऽपि जीवा इत्युक्ताः । दृष्टं तत्प्रतिजाग्रद्भिर्मुनिभिः प्रभाते गुरुस्तच्छिष्यानुपपत्तिभिः प्रत्याय्याभव्योऽयमिति तं बहिश्चकार । कृत्वा तपस्ते गता दिवम् । ततश्च्युत्वा वसन्तपुरे दिलीपनृपतेः सर्वेऽपि सुतत्वेन सञ्जज्ञिरे ।
अन्यदा गजपुरे कनकध्वजभूपतिकन्यकास्वयंवरमण्डपे जग्मुस्ते । तत्रारोपितबृहद्भारं जराजीर्णशरीरं महाकायं कृतार्त्तनादं करभमेकं ददृशुः । आविरभूत्तेषां तस्योपरि करुणा, सञ्जातं जातिस्मरणं, तदनुसारेण विज्ञातमेतैरेषोऽसावस्मद्गुरुः, अहो ! विचित्रः संसारः, यत् तादृशीं ज्ञानलक्ष्मीमवाप्य सद्भावतोऽश्रद्दधानो वराकोऽयमिमामवस्थां लेभे । अनन्तं च भवं लप्स्यत इति कृपया स विमोचितः ततस्ते सर्वेऽपि निष्क्रान्ता इति ।
अधुनाऽक्षरार्थः-अङ्गारजीववधक इति अङ्गारा एव तद्बुद्ध्या जीवाः प्राणिनस्तेषां वधको विनाशकः, कश्चित् कुगुरुः कदाचार्यः सुशिष्यपरिवारः शोभनविनेयपरिकरः, स्वप्ने यतिभिः साधुभिर्दृष्टः कोलः शूकरः, गजकलभपरिकीर्णो लघुहस्तिपरिवारित इति, स उग्रभवसमुद्रे रौद्रसंसारसागरे भ्रमन्निति शेषः, स्वयंवर इति भीमसेनन्यायेन स्वयंवरमण्डपमुपागतैः प्राप्तैः राजभिर्नृपैः करभः सन् उपस्करभृतः भारपूरित इत्यर्थः, दृष्टः पुरातनशिष्यैः जन्मान्तरान्तेवासिवैर
।।१६८-१६९।।