________________
૧૪૬
Buहेशभाला भाग-१| गाथा-८५-८५-८७ कीलिकाप्रयोगेण जले निष्कासिते प्रकाशितदिक्चक्रवालविविधरत्नालङ्कारान्तर्गतं । निजागुलीमुद्रारत्नमङ्गारमिव विच्छायमुपलभ्य स वैलक्ष्यः सन् प्राह-किमेतदिति । परिजनेनोक्तं देवोपनीतं शालिभद्रवधूनिर्माल्यमिति । ततो नास्त्यसाध्यमुत्कृष्टपुण्यानां, येनैवं देवा अपि किंकरत्वं प्रतिपद्यन्त इति । [ग्रं १०००] जातगाढतरविस्मयो भद्राविहितभोजनादिप्रतिपत्तिनिर्गतो राजा । शालिभद्रोऽपि पुनर्विशेषतो धर्मघोषसूरिसमीपे धर्म श्रुत्वा पश्चाद्भगवति वीरे समवसृते सम्भाल्य भद्रां परिजनं च नानोपायैः सवधूको निष्क्रान्तः ततो गृह्णन्सूत्रार्थं प्रवर्तयन् सामाचारी, कुर्वन् विविधान्तपोविशेषान् बहुकालं विहत्य सह भगवता गतो राजगृहं, गोचरे प्रविशंश्चोक्तो भगवतामाता भवन्तं प्रतिलम्भयिष्यति, क्रमेण गतो निजभवनं, तपोनिष्टप्तगात्रतया न प्रत्यभिज्ञातो केनाऽपि निर्गच्छन्नगराज्जन्मान्तरजनन्या प्रतिलाभितो दना तेन च पृष्टो भगवान् । भगवतापि कथितो जन्मान्तरवृत्तान्तः, ततो जातजातिस्मरणस्तदेव दना पारयित्वा कृतपादपोपगमनो मृत्वा समुत्पन्नः सर्वार्थसिद्धिविमाने । ततश्च्युत्वावाप्य केवलश्रियं सेत्स्यतीति ।
अधुनाक्षरार्थ:तत्र मणयश्चन्द्रकान्ताद्याः, कनकं स्वर्ण, रत्नानि कम्बलादीनि, धनं चतुष्पदादि, मणयश्च कनकं चेत्यादिद्वन्द्वः । तैः पूरितं भृतं, तस्मिन् सत्यपि शब्दस्यह सम्बन्धो भवने शालिभद्रोऽन्यः किलेत्येवं श्रूयते ममापि स्वाम्येव स्वामिक इति हेतोर्जातो विगतकामो विषयान्प्रति निरभिलाष इति, स तदाचिन्तयद्युक्तमिदं मादृशां, यतो न कुर्वन्ति ये तपोऽनशनादि, संयमं पृथिव्यादिरक्षणात्मकं, चः समुच्चये, ते पुरुषा अवश्यं प्रेष्यत्वं किंकरत्वमुपयान्तीति सम्बन्धः । केषां ? तुल्यपाणिपादानां समपुरुषाणां समानावयवतया तुल्यानामपीत्यर्थः, तस्यैव यतित्वमधिकृत्याह-सुन्दरः सुरूपः, सुकुमारो मृदुशरीरः, सुखोचितो लालितेन्द्रियः, सुन्दरश्चासौ सुकुमारश्च, स चासौ सुखोचितश्चेति समासः, तेन प्रागेवं सता विविधैर्नानारूपैस्तपोविशेषैरष्टमादिभिस्तथा शोषितः कृशीकृत आत्मा देहः कथञ्चिज्जीवाव्यतिरिक्तत्वात्, जीवस्य शोषणानुपपत्तेः, यथा न ज्ञातो नोपलक्षितः स्वभवनेऽपि निजगृहेऽपीति ।।८५-८६-८७।। सार्थ :
तत्र तावत् ..... निजगृहेऽपीति ।। त्यi=स्य अवस्थामi विवे न तावामi, Bथा45 ठेवाय छ -
ઉત્સિન્ન કુલવાળી વત્સનું પાલન કરનારી ધન્યા નામવાળીના પુત્ર સંગમ નામવાળાએ ઇન્દ્ર ઉત્સવમાં ઘેર ઘર ક્ષીરાત્રને ખાતા જોઈને તેની માતા પાસે યાચના કરી, તેથી દૂધ આદિના અભાવથી થયેલા ખેદવાળી એવી