________________
૧૪૫
Gटेशभाला लाग-१ | गाथा-८५-८५-८७ तामुपलभ्य दत्तं तत्पाटकवासिनारीभिरनुकम्पया तत्तस्याः, राद्धमनया दत्तं सङ्गमाय भाजने । अत्रान्तरे समागतो मासक्षपणिको मुनिः, जातहर्षेण दत्तम् तस्मै संविभागोऽनेन, ततोऽतिलोलतया पायसस्य बहुभक्षणेन जातविसूचिको मृत्वाऽसौ साधुदानोपार्जितपुण्यप्राग्भारवशाद्राजगृहे गोभद्रश्रेष्ठिनो भद्रायाः शालिस्वप्नसूचितो विविधमनोरथपूरको जातस्तनयभावेन, प्रतिष्ठितं नाम शालिभद्र इति । प्राप्तः क्रमेण यौवनं, परिणीतास्त्रिभुवनातिशायिरूपा द्वात्रिंशत्कन्यकाः, बुभुजे भोगान् ।
इतश्च विधिना कालं कृत्वा गतो दिवं तज्जनकः, प्रयुक्तावधिस्तत्पुण्यचोदितस्य जातोऽस्य शालिभद्रं प्रति खरतरः स्नेहः । ततो दर्शितात्मरूपः प्रतिदिनं दिव्यवस्त्राऽलङ्कार-विलेपनकुसुमादीनि तस्मै सवधूकायोपजहार । भवनं च रत्नादीनां बभार ।
अन्यदा तत्र केचिद्रत्नकम्बलचट्टाः समायाताः, दर्शितानि राजकुले, अतिमहापाणीति न गृहीतानि श्रेणिकेन, गता भद्रामन्दिरं, तया तु निर्विचारं गृहीत्वा कृतानि वधूनां चरणप्रमार्जनानि । इतश्च श्रेणिकराजेन प्रियया तद्ग्रहणार्थं प्रेर्यमाणेनाकारिताश्चट्टाः कथितस्तैर्वृत्तान्तः, ततो जातविस्मयेन द्रष्टव्योऽसौ यस्येदृशी स्फीतिरिति सञ्चिन्त्य प्रहितो भद्रायाः तत्प्रस्थापनार्थं दूतः, गत्वाऽऽगतः स चाह-महाराज ! भद्रा विज्ञपयति नानेन चन्द्रसूर्यावपि सततरत्नप्रकाशतया भवनस्य कदाचिदपि दृष्टौ, तत्करोतु महाराजो मम भवनागमनेनानुग्रहमिति । तदाकोल्लसितविस्मयातिरेको गतः सपौरजनपरिकरो राजा । दृष्टं विभवातिशयाऽपहसितधनदालयं तत्तेन भवनं, समारूढश्चतुर्थभूमिकायाम् । भद्रापि विहितोचितप्रतिपत्तिर्गता सप्तमतले यत्रास्ते शालिभद्रः, विहिताभ्युत्थानोऽसावुक्तस्तया पुत्र ! भवद्दिदृक्षया श्रेणिकराजोऽधस्तात्तिष्ठति, तं दृष्ट्वा कुरु तत्प्रतिपत्तिमिति । स प्राह-'यूयमेव तदर्थं जानीथ ।' इतराह-'तनय ! नासौ पण्यं,' 'किं तर्हि ?,'-'त्वत्स्वामिश्रेणिको राजा' इति । ततो ममाप्यन्यः प्रभुरिति ? अथवा युक्तमिदं मादृशां विषयपङ्कमग्नतया मोहराजवशवर्तिनाम् । मुनय एव लब्धात्मलाभा भवन्तीति चिन्तयतो वैराग्यातिशयाज्जातश्चरणपरिणामः, तथापि जनन्युपरोधेनावतीर्य दृष्टः श्रेणिकः, तेनापि सस्नेहमवलोक्य स्थापितः स्वोत्सगे ।
ततः क्षणाद्विद्राणवदनं निर्गच्छन्नयनसलिलं तमवलोक्य भद्रा श्रेणिकं प्रत्याह-'महाराज ! अयं दिव्यविलेपनादिलालितेन्द्रियत्वान्न शक्नोति सोढुं मनुष्याङ्गरागादिक गन्धं, तद्विसर्ग्यतामिति । राजाह-कथं ?, ततः कथितस्तया देवव्यतिकरः विसृष्टे च तस्मिन् भद्रया निमन्त्रितो भोजनेन राजा, प्रतिपन्नमनेन, मज्जितुमारब्धो विविधरत्नकलधौतधौतान्धकारविमलासु यन्त्रवापीषु ससम्भ्रमेण च पतितमङ्गुलीमुद्रारत्नम् । ततस्तरलिततारं विलोकयन्तं तमुपलभ्य भद्रयाभिहितया चेट्या